________________
२५८
श्री विजयानंदाभ्युदयम् महाकाव्यम् ।। गजदारणपुंडरीकं। मिथ्यात्विनोऽसद्देवगुरुधर्माणांप्रति सत्यत्वेन प्रतिपन्नाः परदर्शनिनस्तेषां शास्त्राणि धर्ममार्गप्रवर्तनपरा आगमास्तएव गजा दंतिनस्तेषां दारणे विनाशे पुंडरीकं सिंहतुल्यं। च स्याद्वादशास्त्रवरमानसराजहंसं। स्याद्वादः पूर्वोक्तानेकभंगियुक्तानेकांतजैनमार्गस्तस्य शास्त्राण्यासप्रणितागमास्तएव वरमानसं प्रधानमानसाख्यसरः ॥*।। अनेन स्याद्वादशास्त्राणां स्फटिकवन्निर्मलत्वं ध्वनितं। यतो मानसाख्यतडागस्याच्छजलत्वेन निर्मलत्वं प्रसिद्धमेव ॥*।। तस्मिन् ग़ाहने। तद्रहस्यं ज्ञातुभिति यावत् । राजहंसं कलहंसतुल्यं "राजहंसस्तु कादंबे। कलहंसे नृपोत्तमे। इति हैममेदिन्यौ" अनेनास्य सूरीशस्य स्याद्वादशास्त्रपारंगामित्वं ज्ञापितं। च नयोपपन्नं नैगमाद्याप्तागमप्रसिद्धैर्नयैरुपपन्नं संयुक्तं ॥*।। नैगमादिनयानां विशेषस्वरूपं नयचक्रसारादिग्रंथतोऽवसेयं ॥*।। अमलं निर्मलमसमंजसालापपरस्परविरोधादिदूषणरहितामितियावत्। एवंविधं पूर्वोक्तवर्णनभूषितं तव ते ज्ञानस्वरूपं बोधमहत्त्वं संतः प्रज्ञाः कोविदाः "सन्सुधी: कोविदो बुधः । इत्यमरः" ॥*।। अनेनास्य मुनीशस्य ज्ञानस्वरूपस्य परमोत्कृष्टत्वं ध्वनितं। यतो यस्य ज्ञानस्वरूपं संतो विद्वांसोऽपि प्रशंसंति तस्य ज्ञानस्वरूपस्य परमोत्कृष्टत्वं जगन्मान्यत्वं च निर्विवादमेव ॥*।। प्रवदंति प्रकर्षण कथयति ॥*।। अत्र "प्र" इत्युपसर्गेण सतां चेतस्स्वस्य मुनींद्रस्य ज्ञानस्वरूपाप्तत्वस्य गाढतया संलग्नत्वं ध्वनितं। यतस्तद्विना सद्भिः प्रकर्षेण तत्प्रशंसा दुर्लभैवेति ॥*।।
હે મુનીશ ! મિથ્યાત્વીઓના શાસ્ત્રોરૂપી હાથીઓને વિદારણ કરવામાં સિંહ સમાન, અને સ્યાદ્વાદના શાસ્ત્રોરૂપી મનોહર માનસ सरोवरमा (3051 ७२वाने.) २८४ स समान, भे (नगमा ) નયોવાળું તમારું નિર્મળ જ્ઞાનસ્વરૂપ વિદ્વાનો કહે છે. ।। अथास्य मुनीशस्य व्यक्तपुरुषोत्तमत्वं दर्शयन्सन्स्तुतिमाह ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org