SearchBrowseAboutContactDonate
Page Preview
Page 268
Loading...
Download File
Download File
Page Text
________________ २५७ एकादशमः सर्गः । ॥ माधुर्येति।। हे भव्यांगिसेवित। भव्या मोक्षार्हा येऽगिनो देहिनस्तैः सेवितः पूजितस्तत्संबोधनम्। हे भव्यांगिसेवित ! अत्रास्मिञ् जगति तव त एनं प्रसिद्धमुपदेशंविना धर्मसंबंधिहितकथनमृते हे मुनींद्र! हे वाचंयमेश! शिवपदस्य मोक्षस्थानस्यान्यः परः शिवः श्रेयस्करः पंथा मार्गों न। किंविशिष्ठमुपदेशमित्याह। माधुर्यवारविजितामृतवृंदं। माधुर्यस्य मधुरताया यो वारः समूहस्तेन विजितं पराजितं तिरस्कृतमितियावत् । अमृतवृंदं पीयूषकदंबकं येन तं ॥*।। अत्र वृंदशब्दप्रयुक्तत्वेनास्य सूरीश्वरस्योपदेशस्य परममाधुर्यं ध्वनितं। यतोऽमृते माधुर्यं प्रसिद्धं। अमृतवारे त्वधिकतरं माधुर्यं स्याच्च तदमृतवारस्यापि विजयत्वेनास्य मुनीशस्योपदेशे त्वधिकतमं माधुर्यं वर्तत इति गर्भार्थः ॥*।। च पुनः किंविशिष्ठमुपदेशमित्याह। जैनावलंबिजनचित्तचकोरचंद्र। जिनस्यायं जैनो धर्मः सोऽवलंबनं येषां ते जैनावलंबिनस्तेषां चित्तानि मानसानि तान्येव चकोरा राजराजाख्यपक्षिविशेषाः। ये चंद्रं दृष्ट्वा प्रमोद प्रयांति। तेषामानंदकृते चंद्रं सुधारश्मिसमानमिति।। હે ભવ્ય પ્રાણીઓથી સેવાએલા મુનિરાજ! મધુરતાથી જિતેલ છે અમૃતનો સમૂહ જેણે, તથા જૈનધર્મી માણસોનાં ચિત્તોરૂપી ચકોરોને ચંદ્ર સમાન એવા તમારા ઉપદેશ વિના મોક્ષસ્થાનકનો બીજો કલ્યાણકારી માર્ગ નથી. ।। अथास्य मुनींद्रस्य ज्ञानस्वरूपं वर्णयन्सन्स्तुतिमाह ।। मिथ्यात्विशास्त्रगजदारणपुंडरीकं। स्याद्वादशास्त्रवरमानसराजहंसम् ॥ एवंविधं तव मुनीश नयोपपन्नं । ज्ञानस्वरूपममलं प्रवदंति संतः ।। २७ ॥ ।। मिथ्यात्वीति ।। हे मुनीश! हे योगीश! मिथ्यात्विशास्त्र Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.004562
Book TitleVijayanand abhyudayam Mahakavyam athwa Atmaramji charitam
Original Sutra AuthorN/A
AuthorHiralal Hansraj
PublisherShrutgyan Prasarak Sabha
Publication Year2008
Total Pages400
LanguageGujarati
ClassificationBook_Gujarati & History
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy