________________
२५६
श्री विजयानंदाभ्युदयम् महाकाव्यम् ।। । बोधमिति ।। हे मौनींद्र ! हे वाचंयमेंद्र ! विबोधितजगज्जनजातवृंदं ॥*।। जगति जना जगज्जनाः। जगज्जनानां जातमुत्पन्नंभूतमितियावज्जगज्जनजातं। “जातं व्यक्तौघजन्मसु। क्लीबं त्रिलिंगमुत्पन्ने । इत्युक्तत्वात्" जगज्जनजातं च तद्वंदं च जगज्जनजातवृंदं। विबोधितं जगज्जनजातवृंदं येन स विबोधितजगज्जनजातवृंदस्तं। विबोधितजगज्जनजातवृंदमिति समासः ।। ।। एवं विधं बोधं ज्ञानं सदैव सर्वदैव। अनेन कादाचित्कोपदेशदायिनां व्यवच्छेद उक्तः। मुदा हर्षेण जनोपर्युपकारबुध्ध्युल्लसन्मासगतसंमदेन। अनेन लोकलज्जया कूटवेशाडंबरिदंभयुक्तजैनाभासोपदेशकानां निरासः कृतः। त्वमेव भवानेव। अनेन परतीर्थ कोपदेशकानां निरासः कृतः। यच्छसि ददास्युपदिशसीतियावत् । अथैतदृष्टांतेन समर्थयन्सन्नाह । विबोधितजगज्जनजातवृंदं। विबोधितं प्रकाशत्वं नीतं जगज्जनजात-वृंदं जगतीलोकोत्पन्नकदंबकं येन स तं । च स्फुरदंशुजालं। स्फुरदुल्लसदंशुजालं किरणवृंदं यस्य स तं । एवंविधमर्क सूर्यं प्राच्येव दिक् पूर्वैवाशा जनयत्युत्पादयतीति ॥
બોધયુક્ત કરેલ છે જગતના લોકોના ઉત્પન્ન થએલા સમૂહને જેણે એવા બોધને હે મુનીંદ્ર ! હમેશાં હર્ષથી તમે જ આપો છો, કેમકે પ્રકાશિત કરેલ છે જગતના લોકોના ઉત્પન્ન થએલા સમૂહને જેણે તથા સ્કુરાયમાન છે કિરણોનો સમૂહ જેનો એવા સૂર્યને પૂર્વ દિશા જ ઉત્પન્ન કરે છે.
।। पुनरपि प्रकारांतरेण तस्योपदेशमाहात्म्यं वर्णयन्सन्स्तुतिमाह ।। माधुर्यवारविजितामृतवृंदमेनं । . जैनावलंबिजनचित्तचकोरचंद्रम् ॥ भव्यांगिसेवित विनात्र तवोपदेशं।
नान्यः शिवः शिवपदस्य मुनींद्र पंथा ।। २६ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org