________________
२५५
एकादशमः सर्गः । तस्याथ किं कुगुरुरत्र कदापि लोके।
कश्चिन्मनो हरति नाथ भवांतरेऽपि ।। २४ ॥
।। योभव्येति।। हे मुनीश! हे वाचंयमेश! यो भव्यलोकनिकरो भव्या मोक्षाश्चिते लोकाश्च भव्यलोकास्तेषां निकरः समूहस्तव ते मोक्षप्रदौ मुक्तिदायकौ च भवाब्धियानौ। भवः संसारः सएवाब्धिर्मकराकरस्तस्मिन्यानौ पोततुल्यौ। यथा नौः समुद्रात्तारयति तथा हे मुनीश! तव चरणावपि मोक्षदायित्वात्संसारात्तारयत इति गर्भार्थः। एवंविधौ चरणौ पादौ प्रणौति स्तवीति। तस्यैतस्य भव्यलोकनिकरस्य मनश्चित्तमथेति संशये । हे नाथ! हे स्वामिन्! अत्रलोकेऽस्मिञ्जगति च भवांतरेऽपि अन्यस्मिन्भवेऽपि कदापि कस्मिन्नपि काले कश्चित् कोऽपि कुगुरु: संसारापारपारावारशिलातुल्यः कूटधर्ममार्गोपदेशक: किं किमु हरति यथातथा प्रतार्य स्ववशे करोति न करोत्येवेति ॥ | હે મુનિરાજ ! ભવ્ય લોકોનો જે સમૂહ, મોક્ષ દેનારા તથા ભવરૂપી સમુદ્રમાંથી (તરવાને) વહાણ સરખા એવા તમારામાં ચરણોને સ્તવે છે, તેના મનને હે નાથ! આ લોક અને પરલોકમાં પણ કોઈ પણ કુગુરુ કદાપિ પણ પોતાને) વશ શું કરી શકે છે? (मर्थात नथी ४ ४२N Asतो.) ।। अथास्य मुनीशितुः प्रकारांतरेण बोधमाहात्म्यं
वर्णयन्सन्स्तुतिमाह ॥ बोधं विबोधितजगज्जनजातवृंदं ।
मौनींद्र यच्छसि सदैव मुदा त्वमेव ॥ अर्क विबोधितजगजनजातवृंदं।
प्राच्येव दिग्जनयति स्फुरदंशुजालम् ॥ २५ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org