SearchBrowseAboutContactDonate
Page Preview
Page 265
Loading...
Download File
Download File
Page Text
________________ २५४ लग्नं मनो मम मुने हि यथा तवोक्तौ । नैवं तथान्यवचसीह वसुंधरायाम् ॥ रत्नार्थिनां हृदथ रत्नगणे यथाप्तं । श्री विजयानंदाभ्युदयम् महाकाव्यम् ।। नैवं तु काचशकले किरणाकुलेऽपि ॥ २३ ॥ ।। लग्नमिति ।। हे मुने! हे साधो ! मम मे मनश्चित्तं हीति निश्चयेन यथा तव ते उक्तौ वचसि लग्नं संयुक्तं । तथाऽन्यवचसि परदर्शनावलंबिधर्मगुरुवचने इहवसुंधरायामस्यां पृथिव्यां नैवं नैव लग्नं। मिथ्याभाषित्वात् ॥ * ।। अत्र. " एवं " अवधारणार्थे "एवं प्रकारेऽगिकारेऽवधारणसमन्वयोरिति हैमः " ।। * ।। अथैतद्दृष्टांतेन समर्थयन्नाह । अथेति प्रतिज्ञायां " अथो अथ समुच्चये । मंगले संशयारंभाधिकारानंतरेषु च ।। अन्वादेशे प्रतिज्ञायां । प्रश्नसाकल्ययोरपीति हैमः" रत्नार्थिनां । रत्नानां मणिकर्केतनवज्राश्मादिरत्नानामर्थः प्रयोजनं येषां ते रत्नार्थिनस्तेषां रत्नार्थिनां हृच्चित्तं यथा रत्नगणे पूर्वोक्तमणिसमूहे आतं संसक्तं हृष्टमितियावत्। एवं तथा किरणाकुलेऽपि रश्मियुक्तेऽपि भास्वरेऽपीतियावत् । काचशकले काचाख्यक्षुद्रमणिखंडे न नैव संसक्तमिति।। હે મુનિરાજ! આ પૃથ્વીમાં ખરેખર આપના વચનમાં જેવું મારું મન ચોંટેલું છે, તેવું અન્યના વચનમાં ચોંટેલું નથી; કેમકે રત્નના અર્થી માણસોનું મન જેવું રત્નોના સમૂહમાં લાગેલું છે, તેવું તેજસ્વી એવા પણ કાચના ટુકડામાં લાગેલું નથી. ।। अथास्य साधूत्तमस्य चरणमाहात्म्यं दर्शयन्सन्स्तुतिमाह ।। यो भव्यलोकनिकरश्चरणौ प्रणौति । मोक्षप्रदौ तव मुनीश भवाब्धियानौ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.004562
Book TitleVijayanand abhyudayam Mahakavyam athwa Atmaramji charitam
Original Sutra AuthorN/A
AuthorHiralal Hansraj
PublisherShrutgyan Prasarak Sabha
Publication Year2008
Total Pages400
LanguageGujarati
ClassificationBook_Gujarati & History
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy