SearchBrowseAboutContactDonate
Page Preview
Page 261
Loading...
Download File
Download File
Page Text
________________ २५० श्री विजयानंदाभ्युदयम् महाकाव्यम् ।। यत्रान्यदर्शनमताज्ञगुरूपदेशा । हिंसादिदोषकलिताः शलभप्रभावम् ॥ लब्धाः प्रलब्धमहिमा महिमानुषेंद्रो । दीपोऽपरस्त्वमसि नाथ जगत्प्रकाशः ।। १९ ॥ ।। यत्रेति । यत्र यस्मिन्वक्ष्यमाणस्वरूपे त्वयि दीपे । अन्यदर्शनमताज्ञगुरूपदेशाः। अन्यानि पराणि वेदांतादिदर्शनानि तेषां ये मता विविधप्रकारा भेदा स्तेषामज्ञा धर्ममार्गशास्त्रज्ञानशून्यास्तेषामसमंजसालापकारित्वप्रसंगत्वात् । तेषामसमंजसालापकारित्वं च प्रसिद्धमेव । यतस्ते हि मन्यंते " अस्माकं वेदा अपौरुषेया: " तन्न युक्तं प्रमाणाभावादाकाशपुष्पवत् । यत एवमपौरुषेयशास्त्राणामसंभव एव । यतो यद्यद्वचनरचनात्मकं तत्तत्पुरुषक्लृप्तत्वसूचकं यथा मनुस्मृत्यादयः । एवं च वेदा अपि वचनरचनात्मका वचनानि च ताल्वादिव्यापारयुक्तानि ताल्वादयश्च पुरुषस्येव । ततस्तेषामपौरुषेयत्वं कथं युज्यते । यतः— ताल्वादिजन्मा ननु वर्णवर्गो, वर्णात्मको वेद इति स्फुटं च । पुंसश्च ताल्वादिरतः कथं स्या, दपौरुषेयोऽयमिति प्रतीतिः ॥ १ ॥ एवमसमंजसालापकारित्वेन धर्ममार्गशास्त्रज्ञानशून्या एवं विधा ये गुरवो धर्मोपदेशदायिनस्तेषामुपदेशाः कूटवचनप्रलापा इति यावत्। शलभप्रभावं पतंगस्वभावं लब्धाः प्राप्ताः । दीपे शलभ इव न्यायमार्गभ्रंशत्वेन विनाशं गता इतियावत् । किंविशिष्ठास्त उपदेशा इत्याह । हिंसादिदोषकलिता जीववधादिदूषणसहिताः । वेदेषु पशुमेधमनुजमेधादिहिंसा लोकप्रसिद्धैव । तन्मतावलंबिभिः श्राद्धादिविधावपि जीवहिंसा प्रतिपादितैव । * । एवं तेषामुपदेशेषु हिंसादिदूषणानि संगतान्येव । एवंविधो हे नाथ! हे स्वामिंस्त्वं भवाञ् जगत्प्रकाशो लोकोद्योतकारको । यथास्थितसत्यधर्ममार्ग Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.004562
Book TitleVijayanand abhyudayam Mahakavyam athwa Atmaramji charitam
Original Sutra AuthorN/A
AuthorHiralal Hansraj
PublisherShrutgyan Prasarak Sabha
Publication Year2008
Total Pages400
LanguageGujarati
ClassificationBook_Gujarati & History
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy