SearchBrowseAboutContactDonate
Page Preview
Page 259
Loading...
Download File
Download File
Page Text
________________ श्री विजयानंदाभ्युदयम् महाकाव्यम् ।। पुनरनित्यात्मनि भवप्रमोक्षप्रसंगस्तदपि नैव घटते तपोनियमादिनिष्प्रयोजनत्वप्राप्तिप्रसंगात् । शुभक्रियाणां चपुनरनित्यात्मनि स्मृतिभंगाख्यं दूषणमपि समागच्छति तस्यास्थिररूपत्वात् । नित्यात्मनि च पूर्वोक्तानि दूषणानि नैव प्राप्नुवंतीत्यात्मा 'नित्य' एवेत्येकांतवादिपक्षः ॥ *// ।। * ।। अथानित्यत्वादिबौद्धानां पक्षमाह ।।*।। ।। * ।। ते हि कथयति । नित्यात्मनि तु दूषणप्रसंग: सुलभएव । एतदेवाह । ननु यद्यात्मा नित्यस्तदा तस्य हिंसादयो नैव घटते निष्क्रियत्वात्। निष्क्रियत्वमृते च तस्य नित्यत्वं न युज्यतएव । अत्रादिशद्वान्नित्यात्मनोऽसत्यचौर्यदयाकर्तृत्वभोक्तृत्वादयोऽपि नैव युज्यंते । आत्मा च द्रव्यरूपोऽस्ति । द्रव्यं चार्थक्रियायुक्तमेव । 'अर्थक्रियावद्द्रव्यमिति वचनात् " । एवमात्माचार्थक्रियायुक्तएव । नित्यात्मनि चार्थक्रिया क्रमतश्चाक्रमतोऽपि नैव युज्यते । यतः क्रमतोऽर्थक्रियाकारित्वे तस्यात्मनः स्वभावच्युतत्वप्रसंगः। अक्रमतश्च तस्यार्थक्रियायुगपत्प्राप्तिप्रसंगस्तत्तु तस्य नैव युज्यते । अनित्यात्मनि च मते सति तृष्णानिवृत्तिरूपो महान् गुणोऽपि प्राप्यते परमनिकृष्टकालस्थयित्वात् । अत आत्मा "अनित्य” एवेत्यनित्यवादिपक्षः । । * । । २४८ "" ।। * ।। एवं विधानि परोदितान्येकांतवादवचनानि तु पूर्वोक्तन्यायेन परस्परं ध्वंसं गतानि ॥ * ॥ ।। * ।। यदाहुः कलिकालसर्वज्ञा: श्रीहेमचंद्राचार्य निजान्ययोगव्यवच्छेदिकाख्यद्वात्रिंशिकायाम् ।। * ।। य एव दोषाः किल नित्यवादे, विनाशवादेऽपि समास्त एव । परस्परध्वंसिषु कंटकेषु जयत्यधृष्यं जिन शासनं ते ।। १ ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.004562
Book TitleVijayanand abhyudayam Mahakavyam athwa Atmaramji charitam
Original Sutra AuthorN/A
AuthorHiralal Hansraj
PublisherShrutgyan Prasarak Sabha
Publication Year2008
Total Pages400
LanguageGujarati
ClassificationBook_Gujarati & History
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy