________________
२४७
एकादशमः सर्गः । भ्रमणं कुर्वतः। नि:सपनरत्नत्रयार्पणक्षमपरमाप्तप्रणितमोक्षमार्गरूपधर्मद्विषतां तेषां स्वच्छंदत्वं तु युक्तमेवेति ॥ ___मुनीत! (ॐन नामधारी) यतिमी (पोताना) । વેશના મિષથી આ જગતમાં, પારધિઓ જેમ હરિણોને, તેમ મુગ્ધ લોકોને પોતાના જાળ સરખા ધર્મમાં ખેચે છે, એવા સ્વેચ્છાચારી (નામધારી) યતિઓને સાંપ્રત કાળમાં આપ શિવાય બીજો કોણ અટકાવી શકે છે? (અર્થાત્ કોઈ પણ બીજો અટકાવી શકતો નથી.) ।। अथास्य मुनीशस्य स्याद्वादवचोमाहात्म्यं वर्णयन्सन्स्तुतिमाह ।। एकांतवादवचनानि परोदितानि ।
नाशं गतानि सहसा मुनिराज तानि ॥ स्याद्वादपेशलवचस्तव किं हतं नु।
किं मंदराद्रिशिखरं चलितं कदाचित् ।। १८ ॥
।। एकांतेति।। हे मुनिराज! हे यतीश! परोदितानि त्वत्परैर्वेदांतादिधर्मगुरुभिरुदितानि जल्पितानि तानि प्रसिद्धान्येकांतवादवचनान्येकत्वप्रवादवचांसि सहसा तूर्णं नाशं ध्वंसं गतानि प्राप्तानि। न्यायत इति शेषः। कथं न्यायतो ध्वंसं गतानीत्याह।।
।। ।। नैयायिकवैशेषिकसांख्यादिमतावलंबिन आत्मादीनेकांतत्वेन मन्यते तन्न युक्तम् ॥*।।
*।। ते हि मन्यते । आत्मा नित्योऽप्रच्युतानुत्पन्नास्थिरैकरूपत्वादाकाशादिवत् । ननु यदि सोऽनित्यश्चेत्तदा तत्कृतकर्मणां फलभोक्तृत्वं तस्य न युज्यतएव परनिकृष्टकालस्थायित्वात् । एवं च कृतकर्मनाशाख्यं दूषणं तस्य समागतम्। च पुनरनित्यात्मनो नवीनोत्पत्तिप्रसंगस्तदपि नो युक्तमकृतागमदूषणप्राप्तिप्रसंगात्। च
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org