SearchBrowseAboutContactDonate
Page Preview
Page 256
Loading...
Download File
Download File
Page Text
________________ २४५ एकादशमः सर्गः । પાપ રહિત એવા તમોને આ પૃથ્વી ભાગમાં જોઈને, ડાહાડીમુછના વાળના મિષથી સરસ્વતીરૂપી સ્ત્રીએ જાણે ખરેખર (તમારા પર) કટાક્ષોની શ્રેણિ મૂકેલી હોય નહીં તેમ લાગે છે, કેમકે, તમારા સમાન બીજું કોઈ રૂપ નથી. ।। अथास्य मुनिराजस्य प्रकारांतरेण वाङ्माहात्म्यं दर्शयन्स्तुतिमाह।। खद्योतभां दधति यस्य गिरस्त्वदीय । वागर्कमेनमपरं हि शठा भजंते ॥ इच्छेद्धि कैरवगणोऽत्र तदिंदुबिंबं । यद्वासरे भवति पांडुपलाशकल्पम् ।। १६ ॥ ।। खद्योतेति ।। हे वांचयमेश! यस्य त्वत्परस्य। असमंजसप्रलापकान्यदर्शनिन इतियावत्। गिरो वाण्यस्त्वदीयवागर्कं। तवेयं त्वदीया चासौ वाक्च त्वदीयवाक् सैवार्को विरोचनो। अज्ञानतिमिरांधानां जनानां यथार्थवस्तुस्वरूपप्रकाशकत्वात् । तंप्रति खद्योतभा ज्योतिरिंगणस्य भां कांतिं दधति धारयंति। यथा सूर्यतेजोऽग्रे खद्योतकांतिर्नकिंचिदेव तथा त्वद्वचनाग्रे परधर्मगुरोर्वचनमपि नकिंचिदेवेति भावार्थः। एवंविधमेनं प्रसिद्धमपरं तत्परमन्यदर्शनिगुरुं हीति निश्चयेन शठा धूर्ताः परवंचनतत्परा इतियावत् । "शठो मध्यस्थपुरुषे। धूर्ते धत्तूरकेऽपि च। इति हैमः" भंजते सेवते। अथैतदृष्टांतेन समर्थयन्सन्नाह । हि यतोऽत्रास्मिञ् जगति यदिंदुबिंबं यन्निशाकरमंडलं वासरे दिवसे पांडुपलाशकल्पं पीतसंवलितशुक्लवर्णाढ्यपर्णतुल्यं भवति तदिंदुबिंबं रजनीकरबिंबं कैरवगणः कुमुदसमुहः ।।* ॥ कुत्सितार्थेतु कैतवव्रजः ।। ।। "कैरवं कितेव रिपौ। इत्युक्तत्वात्" इच्छेद्वांच्छेच्चंद्रविकसित्वादिति ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.004562
Book TitleVijayanand abhyudayam Mahakavyam athwa Atmaramji charitam
Original Sutra AuthorN/A
AuthorHiralal Hansraj
PublisherShrutgyan Prasarak Sabha
Publication Year2008
Total Pages400
LanguageGujarati
ClassificationBook_Gujarati & History
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy