________________
२४४
श्री विजयानंदाभ्युदयम् महाकाव्यम् ।। ॥सिद्धांतेति।। हे मुनिचंद्र ! सिद्धांततोयनिधिपारगतं सिद्धांता आसप्रणितागमास्तएव तोयनिधिः पाथोधिर्गहनत्वगांभिर्यादिगुणोपेतत्वात् । तस्य पारं परतटं “पारं प्रांते परतटे। इति हैमः" तत्प्रति गतं प्रयातं सर्वसिद्धांतज्ञातारमितियावत् । च गताकं गतं प्रणष्टमकं दुःखं पापं वा “अकं दु:खाघयोरिति हैम:" यस्माद्यस्य वा तं ।*। आभ्यां द्वाभ्यां विशेषणाभ्यां वक्ष्यमाणाया वाङमहिलायास्तस्योपरि परमप्रेमाविष्करणकारणं ध्वनितं। यतो वरवर्णिनी "भर्तृभक्ता च या नारी । साभवेद्वरवर्णिनीति रुद्रः" सिद्धांतादिज्ञातारं विद्वांसमितियावच्च परपराभवरोगापायादिरहितमेव रमणं लब्धं वांछति ।। एवं विधं त्वां भवंतं किलेति निश्चयेन भूमिभागे महीखंडेऽत्रभरतक्षेत्रइतियावत् ।। भागग्रहणं तु महाविदेहादिक्षेत्रेऽधुनापि विचरत्केवलिभगवतां दूषणप्राप्तिप्रसंगनिरामार्थं ।* । वीक्ष्य दृष्ट्वा वाङ्महिलया वाक् सरस्वती सैव महिला वरवर्णिनी तया ।। 'मह पूजायां' (भ्वा० प० से०) 'सलिकल्यनिमाहि' (उ० १।५४) इतीलच् ।*। सरस्वत्याः पूजनीयत्वेनात्र "महिला" शब्द एवौचितिमंचति नत्वन्ये भीरुकोपनाद्याः । । श्मश्रुच्छलेन मुखोपरिस्थकचमिषेण कटाक्षमाला अपांगदर्शनश्रेणिर्निहितेव धारितेव क्षिसेवेत्युत्प्रेक्षा। अथ तत्कटाक्षालिक्षेपणोत्कृष्ट कारणं दर्शयति । यद्यस्मात्कारणात्ते तव समानं तुल्यं हीति निश्चयेनापरमन्यं रूपं सौंदर्य "रूपं तु श्लोकशब्दयोः पशावाकाशे सौंदर्ये । इति हैमः" नास्ति न विद्यते । पुरुषसौंदर्यं तु चकोरनेत्रायाश्चंचलचित्ताकर्षणे कार्मणरूपमेव ज्ञातं । यदाहुः कलिकालसर्वज्ञाः हेमचंद्राचार्या निजद्रौपदीनाटके ॥ ॥ पुंरूपं च परं स्त्रीणां । प्रथमं प्रेमकारणम् ।। ।। इति ॥
હે મુનિરાજ ! સિદ્ધાંતોરૂપી સમુદ્રના પારને પહોંચેલા, તથા
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org