SearchBrowseAboutContactDonate
Page Preview
Page 254
Loading...
Download File
Download File
Page Text
________________ एकादशमः सर्गः । २४३ ।। मिथ्यात्वीति ।। हे मुनीश्वर ! तव ते वचो वचनं श्रुत्वा आकर्ण्य मिथ्यात्विनः कूटधर्मिणो घनतरानपि सांद्रतरानपि बहूनपीतियावत् । * । अनेन स्तुतिकारेण स्वस्य प्रज्ञत्वं सूचितं । यतोऽत्र गतानुगतिका जडलोका धर्मसंबंधिविषयमपरीक्ष्यैवैवं जल्पंति "वयं त्वज्ञास्ततो यस्मिन्धर्ममार्गे बहवो जनाः प्रवर्तते तस्मिन्नेव धर्ममार्गे वयमपि यास्यामो" यतस्तेषां धर्मपरीक्षा तु ललाटकुट्टन - रूपैव जायत इति । * । संनिरीक्ष्य सम्यक्प्रकारेण दृष्ट्वा । सम्यक्प्रकारेणेति तेषां धर्मशास्त्राणां कषच्छेदतापात्मकत्रिकोटीपरीक्षां विधाय नत्वपरीक्ष्यैवेति गर्भार्थी देशतः सर्वग्रहणत्वन्यायात् । तान्प्रति एतेभ्यो मम मे मनश्चित्तमिहास्यां भूमौ न व्याकृष्टमेव हर्षेण न संलग्नमेव तेषां कूटासमंजसप्रलापकत्वात् । अनेन चास्य मुनिराजस्य वचस आप्तत्वं ध्वनितम् । अथैतद्दृष्टांतेन समर्थयन्नाह । हि यतो जलनिधेः पारावारस्य क्षारं लवणयुक्तं जलं पानीयं घनमपि भूर्यपि संविलोक्य संदृश्य असितुं पातुं । कृतामृतपान इति ध्वनिना ज्ञेयः । क इच्छेत् को वांछेन्नकोपीति ।। હે મુનીશ્વર! આપનું વચન સાંભળીને ઘણા એવા પણ મિથ્યાત્વિઓને જોઇને મારું મન તેઓ તરફ ખેંચાયું જ નહીં; કેમકે, સમુદ્રનું ખારું પાણી ઘણું જોઈને પણ (તેને) પીવાને કોણ छे? (अर्थात् हो पाए। न छे.) ।। अथास्य मुनिचंद्रस्य रूपमाहात्म्यं दर्शयन्सन्स्तुतिमाह । । सिद्धांततोयनिधिपारगतं गताकं । त्वां वीक्ष्य वाङ्महिलया किल भूमिभागे ॥ श्मश्रुच्छलेन निहितेव कटाक्षमाला । यत्ते समानमपरं न हि रूपमस्ति ।। १५ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.004562
Book TitleVijayanand abhyudayam Mahakavyam athwa Atmaramji charitam
Original Sutra AuthorN/A
AuthorHiralal Hansraj
PublisherShrutgyan Prasarak Sabha
Publication Year2008
Total Pages400
LanguageGujarati
ClassificationBook_Gujarati & History
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy