________________
२४२
श्री विजयानंदाभ्युदयम् महाकाव्यम् ।। ॥ मिथ्यात्वेति।। मिथ्यात्वतामसभरोग्रनिशाटनाभाः। मिथ्यात्वं असद्देवगुरुधर्मादिवस्तूनां सद्बुद्ध्या बोधो मिथ्यात्वं तदेव तामसभरस्तमिस्रसंबंधिसमूहः। सम्यग्ज्ञानध्वंसेनात्मन आंध्यदायित्वात्। तस्मिन्नुमा उत्कटाः “उग्रः शूद्रासुते क्षत्रा-द्रुद्रे पुंसि त्रिषूत्कटे। इति मेदिनी" ये निशाटना घूकास्तदाभास्तत्तुल्याः। एवंविधा रेरे परे! अन्यदर्शनिनोऽस्यैतस्य मुनिवरस्य वाचंयमश्रेष्ठस्येहास्मिञ् जगति महत्त्वं माहात्म्यं पश्यत विलोकयध्वं। अथ तन्महत्त्वं दर्शयन्सन्नाह । योऽयं मुनिराज आश्रितं स्वसंश्रितं शिष्यवर्ग परिवारसमूहं हंतेति हर्षे इहास्यां मह्यां सपदि द्रुतं नतु शनैः शनैः। यतः शनैःस्तु सामान्यजना अपि कुर्वति नच तत्र महत्त्वप्रसंगः। किं किमु भूत्या सम्यग्ज्ञानदर्शनचारित्ररूपसंपदा “भूतिर्भस्मानि संपदीत्यमरः" आत्मसमं स्वतुल्यं न करोति नो विदघाति विदघात्येवेति ॥
મિથ્યાત્વરૂપી અંધકારના સમૂહમાં બળવાન થએલા ઘુવડો સરખા એવા રે! અન્યદર્શનીઓ! આ મહામુનિરાજનું તમો અહીં माहात्म्य तो मी! (33) 2 (पोताने) माश्रित भेला सेवा શિષ્યવર્ગને અહીં (જ્ઞાનાદિકની) સંપદાથી શું તુરત પોતાના તુલ્ય नथी २ता? (४२ ४ ७.)
।। अथास्य मुनिराजस्य वचोमाहात्म्यं संदर्शयन्स्तुतिमाह ।। मिथ्यात्विनो घनतरानपि संनिरीक्ष्य ।
व्याकृष्टमेव न मनो मम तान्प्रतीह ॥ श्रुत्वा वचस्तव घनं ह्यपि संविलोक्य।
क्षारं जलं जलनिधेरसितुं क इच्छेत् ।। १४ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org