SearchBrowseAboutContactDonate
Page Preview
Page 252
Loading...
Download File
Download File
Page Text
________________ एकादशमः सर्गः । २४१ दीनां जेतारो जिनास्तीर्थकरास्तेषां वचांसि वचनानि तान्येवामृतं पीयूषं । पक्षे जलं "अमृतं यज्ञशेषे स्यात्पीयूषे सलिले घृते । इत्युक्तत्वात्” तेन संभृतानि सम्यक्प्रकारेण खचितानि । च घनानि गहनानि सहृदयैर्ज्ञातुं शक्यानीतियावत् । पक्षे- अभ्राणि । एवंविधानि भवता त्वया सदयं सकृपं जनोपकाराय दयया यथास्यात्तथेतियावत्। न तु केवलं स्वप्रशंसाकृते । उदितानि कथितानि गुंफितानी तियावात् शास्त्राणि जैनतत्त्वादर्शाज्ञानतिमिरभास्करतत्त्वनिर्णयप्रासादादिशास्त्राणि दृष्ट्वा विलोक्याहं ग्रंथकारो हीरालालः शिखीव केकीव "शिखावलः शिखी केकीत्यमरः हृष्टः प्रमोदं गतः । घनानि दृष्ट्वा शिखीनां प्रमोदत्वं प्रसिद्धमेव । अथ तद्दृष्टांतेन समर्थयन्नाह । हि यतः पद्माकरेषु तडागेषु विकाशभांजि विकसितानि जलजानि शतपत्राणि दृष्ट्वा विलोक्य भो भ्रमरः " भ्रमरो भः प्रकीर्तितः। इत्येकाक्षरः” किमु किं हर्षं प्रमदं न गतो नो प्राप्तः प्राप्तएवेति । । હે મુનીશ! જિનેશ્વરપ્રભુનાં વચનોરૂપી અમૃતથી (પક્ષે— પાણીથી) ભરેલાં અને ધનાનિ એટલે ગહન (પક્ષે–મેઘ) એવા તમોએ દયા લાવીને ગૂંથેલાં શાસ્ત્રોને જોઇને હું મયૂરની પેઠે હર્ષિત થએલો છું; કેમકે, તળાવોમાં વિકસ્વર કમલોને જોઇને શું ભમરો હર્ષને નથી પ્રાપ્ત થયો? (થયો જ છે) ?? ।। अथान्यदर्शनिनामाक्षेपपूर्वकमस्य मुनींद्रस्य माहात्म्यं दर्शयन्सन्स्तुतिमाह ॥ मिथ्यात्वतामसभरोग्रनिशाटनाभा । रेरे परे मुनिवरस्य महत्त्वमस्य ॥ हंतेह किं सपदि पश्यत शिष्यवर्गं । भूत्याश्रितं य इह नात्मसमं करोति ।। १३ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.004562
Book TitleVijayanand abhyudayam Mahakavyam athwa Atmaramji charitam
Original Sutra AuthorN/A
AuthorHiralal Hansraj
PublisherShrutgyan Prasarak Sabha
Publication Year2008
Total Pages400
LanguageGujarati
ClassificationBook_Gujarati & History
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy