________________
२३८
श्री विजयानंदाभ्युदयम् महाकाव्यम् ।।
जैनेंद्रधर्ममहिमा यदमेरिकायां । जज्ञेऽद्य हंत किल तत्तु तव प्रभावः ॥ आम्रद्रुमेषु सुरभी सुरभिर्यदागात् । तच्चारुचूतकलिकानिकरैकहेतु ॥ ९ ॥
11
।। जैनेंद्रेति । यदद्यास्मिन्कालेऽमेरिकायाममेरिकाख्यभूमौ जैनेंद्र धर्ममहिमा जिनोपदिष्टमोक्षमार्गरूपधर्ममहत्त्वं जज्ञे तत्तु तत्पुन: हे मुनींद्र ! इति शेषः । हंतेति हर्षे "हंत हर्षेऽनुकंपायामित्यमरः किलेति संभावनायां तव ते प्रभावः प्रतापः । अथ तद्दृष्टांतेन समर्थयन्नाह यत्सुरभौ वसंतर्तावाम्रद्रुमेषु सहकारवृक्षेषु सुरभि: सुगंधिः " सुरभिर्हेनि चंपके ।। जातिफले मातृभेदे । रम्ये चैत्रवसंतयोः ।। सुगंधौ गवि शल्लक्यामिति हैमः" ॥ आगादायात्तच्चारुचूतकलिकानिकरैकहेतु । चारुर्मनोहरो यश्चूतकलिकानिकर आम्रकोरकसमूहः सएवैकहेत्वेककारणमिति ।।
હે મુનીશ ! જૈનંદ્ર ધર્મનો મહિમા જે આ કાળમાં અમેરિકાખંડમાં થયો છે, તે તો ખરેખર તમારો જ પ્રભાવ છે; કેમકે વસંત ઋતુમાં આંબાનાં વૃક્ષો પર જે સુંગધી આવેલી છે, તેમાં મનોહર એવો આંબાનો મોરનો સમૂહ જ એક હેતુભૂત છે. ।। अथ प्रकारांतरेणास्य मुनीशस्य प्रभावं वर्णयन्सन्स्तुतिमाह । ।
तीर्थंकरागमकुशेशयराजहंसं । योगींद्रवारवरमानससन्निवासम् ॥
त्वां वीक्ष्य मे निबिडकर्म गतं प्रणाशं ।
सूर्यांशुभिन्नमिव शार्वरमंधकारम् ॥ १० ॥
।। तीर्थमिति ।। हे वाचंयमेंद्र ! तीर्थंकरागमकुशेशयराजहंसं ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org