________________
एकादशमः सर्गः ।
२३७
पादप्रचारमपि संप्रविधार्य धात्र्यां ।
यो लोकबांधव इवात्र चकार बोधम् ॥ स्वीयाश्रितांगिकमलस्य यतोऽप्यशक्तो ।
नाभ्येति किं निजशिशो: परिपालनार्थम् ॥८॥
।। पादेति ।। योऽयं मुनिराजो लोकबांधवइव सूर्यवत् । *। अत्र “लोकबांधव". शब्द एवौचित्यमंचति नतु "मार्तंडचंडरश्म्यादयः" यतोऽयं मुनिनाथोऽपि लोकबांधवरूपोऽस्ति ।। अत्रधात्र्यामस्या पृथिव्यां पादप्रचारमपि चरणगमनमपि । अत्र अपिशब्देन तस्य परोपकारशौर्य गदितं। पक्षे-किरणप्रचारमपि संप्रविधार्य। सम्यक्प्रकारेण। अनेनास्येर्यासमितिसुध्यानत्वं ध्वनितं। प्रकर्षेण विशेषेण कृत्वा। अनेनास्य प्रमादरहितत्वं ध्वनितं। स्वीयाश्रितांगिकमलस्य निजाश्रितदेहिपद्मस्य। जातित्वादेकवचनं। बोधं उपदेशद्वारा धर्मसंबंधि बोधं । पक्षे– विकस्वरभावं चकाराकरोत् । यतो यस्मात्कारणादशक्तोऽपि शक्तिरहितोऽपि प्राणीति शेषः। निजशिशोः स्वीयार्भकस्य परिपालनार्थं त्राणकृते किं किमु नाभ्येति नो समीपमायाति। आयात्येव । तदा शक्तस्य तु का वार्तेति ॥
જે મુનિરાજે સૂર્યની પેઠે આ પૃથ્વીમાં પગે ચાલીને પણ (પક્ષે—કિરણોનો પ્રચાર કરીને પણ) પોતાને આશ્રિત એવા પ્રાણીઓરૂપી કમલને બોધ કરેલો છે; કેમકે, અશક્ત પ્રાણી પણ પોતાના બાળકનું રક્ષણ કરવાને શું સમીપ આવતો નથી? (અર્થાત્ આવે જ છે, ત્યારે શક્તિવાનની તો વાત જ શી કરવી?)
।। अथास्य वाचंयमेंद्रस्य प्रभावं वर्णयन्सन्स्तुतिमाह ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org