SearchBrowseAboutContactDonate
Page Preview
Page 247
Loading...
Download File
Download File
Page Text
________________ २३६ श्री विजयानंदाभ्युदयम् महाकाव्यम् ।। છે મોતીઓનો સમૂહ જેમાં) (એવા જે મુનિરાજના તે ઉપદેશરૂપી ઉત્તમ નિર્મલ માલાને તજીને અન્યશાસનરૂપી સર્પને તુરત લેવાને મૂર્ખ વિના બીજો કયો માણસ ઇચ્છે? ।। अथास्य मुनीशस्य ज्ञानामाहात्म्यं वर्णयन्सन्स्तुतिमाह ।। स्याद्वादभंगिभरभासुरमस्य बोधं । भव्यांगिमानसमरालसहस्त्रपत्रम् ॥ शक्तो भवामि ननु वर्णयितुं कथं यत् । कोवा तरीतुमलमंबुनिधिं भुजाभ्याम् ।। ७ ॥ ।। स्याद्वादेति ॥ स्यादस्ति स्यान्नास्ति स्यादवक्तव्यं स्यादस्तिनास्ति स्यादस्त्यवक्तव्यं स्यान्नास्त्यवक्तव्यं स्यादस्तिनास्त्यवक्तव्यं एवंविधा भंगयः प्रकारास्तेषां यो भर: समूहस्तेन भासुरं देदीप्ययानं । च भव्यांगिमानसमरालसहस्रपत्रं । भव्या मोक्षार्हा येsगिनो देहिनस्तेषां मानसानि चित्तानि तान्येव मराला हंसास्तेषां हर्षाय सहस्रपत्रं नीरजतुल्यं । एवंविधमस्यैतस्य मुनिराजस्य बोधं ज्ञानं वर्णयितुं वर्णनविषयीकर्तुं नन्वितिशंकायां कथं केन प्रकारेण शक्तः शक्तियुक्तो भवाम्यहमिति शेषः । अनेनास्य सूरीश्वरस्यापारज्ञानत्वं ध्वनितम्। यत् यस्मात्कारणात् वा अथवांबुनिधिं समुद्रं भुजाभ्यां बाहुभ्यां तरितुं कोऽलं कः समर्थो न कोपीति । સ્યાદ્વાદની ભંગિઓના સમૂહથી દેદીપ્યમાન થએલા તથા ભવ્ય માણસોના મનરૂપી હંસોને કમલ સરખા એવા આ મુનિરાજના જ્ઞાનને વર્ણવવાને હું કેમ સમર્થ થઉં? કેમકે બન્ને હાથોથી સમુદ્રને તરવાને કોણ સમર્થ થાય? (અર્થાત્ કોઈપણ ન થાય.) ।। अथास्य मुनींद्रस्य परोपकारत्वं दर्शयन्सन्स्तुतिमाह ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.004562
Book TitleVijayanand abhyudayam Mahakavyam athwa Atmaramji charitam
Original Sutra AuthorN/A
AuthorHiralal Hansraj
PublisherShrutgyan Prasarak Sabha
Publication Year2008
Total Pages400
LanguageGujarati
ClassificationBook_Gujarati & History
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy