________________
एकादशमः सर्गः ।
२३५
પ્રભુની સ્તુતિ કરતા એવા તે શ્રી આત્મારામજી મુનિરાજની હું પણ સ્તુતિ કરીશ.
।। अथास्य मुनिराजस्योपदेशमाहात्म्यं दर्शयन्सन्स्तुतिमाह ।।
यस्योपदेशसुविनिर्मलमाल्यमेत । त्संक्रांतवर्ण्यगुणगुंफितमुक्तवारम्
॥
मुक्त्वान्यशासनशयुं च विना हि मुर्ख ।
मन्यः क इच्छति जनः सहसा ग्रहीतुम् ॥ ६ ॥
।। यस्येति । । यस्य मुनिराजस्य संक्रांतवर्ण्यगुणगुंफितमुक्तवारं । संक्रांतः प्राप्तो वर्णितइतियावत् । वर्ण्याः श्रेष्टा ये गुणाः शमदमादयस्तैर्गुफिता युक्ता ये मुक्ताः सिद्धास्तेषां वारः समूहो यस्मिंस्तत्तत् । पक्षे- संक्रांतः प्रोतो यो वर्ण्यगुणो मनोहरो दवरकस्तेन गुंफितो ग्रथितो मुक्तवार: शौक्तिकेयानां समूहो यस्मिंस्तत्तत्। एवंविधमेतत्प्रसिद्धमुपदेशसुविनिर्मलमाल्यं । उपदेशो धर्मसंबंध्युपदेशः स एव सुष्ट च विशेषेण निर्मलं म्लानत्वरहिंत । * तस्मात्प्रतिदिनंज्ञानरूपध्रुवपरिमलप्राप्तिप्रसंगात् । एवं "निर्मल" इति विशेषणेनास्य मुनिराजस्योपदेशरूपमाल्यस्य लौकिकमाल्यतः परमं महत्वंगदितम् * माल्यं मुक्त्वा त्यक्त्वा अन्यशासनशयुं परधर्मरूपसर्पं माल्याकारत्वात् "माल्यं पुष्पे च तत्स्रजोरिति हैमः" ।। दुर्गत्यादिदुःखनिकरदायकत्वाच्चास्य सर्पोपमा । च पुनः हीति निश्चयेन मुर्खविना अज्ञमृते सहसा तूर्णं गृहितुं लब्धुं अन्यः परः क इच्छति को वांछति न कोपति ॥
સંક્રાંત થએલ છે ઉત્તમ ગુણોએ કરીને યુક્ત થએલા એવા સિદ્ધોનો સમૂહ જેમાં (પક્ષે—પરોવેલા ઉત્તમ દોરાએ કરીને ગૂંથેલો
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org