SearchBrowseAboutContactDonate
Page Preview
Page 250
Loading...
Download File
Download File
Page Text
________________ एकादशमः सर्गः । २३९ तीर्थंकरैर्जिनेश्वरैराप्तैरितियावदुपदिष्टा य आगमाः सिद्धांतास्तएव कुशेशयानि कमलानि "सहस्रपत्रं कमलं। शतपत्रं कुशेशयमित्यमरः" /*। कुशे जले शेते। 'अधिकरणे शेतेः' (३।२।१५) इत्यच् । ‘शयवास' (६।३ । १८) इत्युलक् ।* । तेषां सेवनाय राजहंसं कलहंसतुल्यं “राजहंसस्तु कादंबे। कलहंसे नृपोत्तमे ।। इति हैममेदिन्यो" च योगींद्रवारवरमानससन्निवासम् । योगा मनोवच:कायवृत्तिनिरोधनसमाराधनलक्षणास्ते संति येषां ते योगिनो वाचंयमास्तेषामपींद्रा नायकाः सिद्धा इतियावत् । तेषां यो वारः समूहस्तस्य वराणि श्रेष्ठानि यानि मानसानि मनांसि तेषु सम्यक्प्रकारेण निवासो निवसनं यस्य तं । *। अथवा योगींद्रसमूह एव वरो मानसनामातडागस्तस्मिन्सन्निवासो यस्य तं। प्रस्तुतराजहंसोपमाप्रसंगत्वात् । यतो राजहंसानां मानसाख्यसरसि निवासः प्रसिद्ध एव । । सिद्धध्यानतत्परमिति। एवंविधं त्वां भवंतं वीक्ष्य दृष्ट्वा मे मम निबिडकर्म निबिडं दृढं कर्म नानाभवभ्रमणेषु मिथ्यात्वादिहेतुभिरात्मना सह परपुद्गलबंधनरूपकर्म प्रणाशं विध्वंसं गतं प्राप्त । किमिवेत्याह। सूर्यांशुभिन्नं। सूर्यस्य चंडरश्मेरंशुभिः किरणेभिन्नं ध्वस्तं शार्वरं रात्रिसंबंध्यंधकारमिव तमोवेति।। હે મુનિરાજ ! તીર્થકરોના આગમોરૂપી કમલોને સેવવામાં રાજહંસ સરખા તથા સિદ્ધોના સમૂહના ઉત્તમ મનોમાં નિવાસ કરનારા એવા (અથવા સિદ્ધોના સમૂહરૂપી ઉત્તમ માનસ સરોવરમાં નિવાસ કરનારા) તમોને જોઈને સૂર્યનાં કિરણોથી ભેદાએલાં રાત્રિ સંબંધી અંધકારની પેઠે મારું નિબિડ કર્મ નાશ પામ્યું છે. ।। अथास्य मुनिराजस्य धर्मोपदेशमाहात्म्यं वर्णयन्सन्स्तुतिमाह ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.004562
Book TitleVijayanand abhyudayam Mahakavyam athwa Atmaramji charitam
Original Sutra AuthorN/A
AuthorHiralal Hansraj
PublisherShrutgyan Prasarak Sabha
Publication Year2008
Total Pages400
LanguageGujarati
ClassificationBook_Gujarati & History
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy