________________
नवमः सर्गः । अंसौ सुवेण्याः किल कोविदास्तौ ।
धर्मद्विदंतस्य रदप्रभेदे ॥ जानंति नित्यं दरदौ गिरी व ।
मायां क्षमौ रौहिषलोचनायाः॥ ३१ ॥ ઉત્તમ છે વેણી જેણીની, તથા હરિણ સરખાં છે લોચનો જેણીના એવી સ્ત્રીના તે ખભાઓને પૃથ્વીમાં પંડિતો ધર્મરૂપી હાથીના દાંતોને ભાંગવામાં સમર્થ તથા ભય આપનારા પર્વત સરખા જાણે છે. ईशाक्षिशुष्णाशु मृतोऽपि दर्पः।
पीयूषबिंदुं हि निपीय तस्याः ॥ ओष्ठोद्भवं स्वादु सुमध्यमाया। श्चैतन्ययुक्तोव पुनर्बभूव।। ३२ ॥
મહાદેવના નેત્રની અગ્નિથી તુરત મૃત્યુ પામેલો પણ કામદેવ ખરેખર, ઉત્તમ મધ્યભાગવાળી તે સ્ત્રીના હોઠથી ઉત્પન્ન થયેલા સ્વાદિષ્ટ અમૃતબિંદુને પીને જાણે ફરીને ચૈતન્યયુક્ત થયો હોય નહીં જેમ, તેમ લાગે છે. जानंति नार्या विषबिंदुतुल्य ।
मोष्ठाग्रगं दूरदृशो रसं हि ॥ आस्योग्र वल्मीकविलोललोला ।
देर्वीकरोद्भूतमिमं धरायाम् ।।३३ ॥
१. रौहिषं कत्त्तृणे क्लीबं । पुंसि स्याद्धरिणांतरे ।। इति मेदिनी ॥ २. बर्हिः शुष्मा कृष्णवर्मा । शोचिष्केश उषर्बुधः । इत्यमरः ॥ * ।। शुष्यत्यनेनिति शुष्मा 'शुष् शोषणे' (दि० प० अ०) अन्येभ्योऽपि (३। २। ७५) इति मनिन् । संज्ञापूर्वकत्वान्न गुणः ।। * ।। इति स्वोपज्ञटीकायाम् ३. दूरंयावद् दृशो दृष्टयो येषां ते दूरदृशो विचक्षणा इति यावदिति स्वोपज्ञटीकायाम् ।। ४. वामलूरश्च नाकुश्च । वल्मीकं पुनपुंसकम् ॥ इत्यमरः ।। ५. लोला तु रसनाश्रियोः ।। इति हैमः ।। ६. दर्वीकरो दीर्घपृष्टो । दंदशूको बिलेशयः ।। इत्यमरः ।। ।। दव्यीकारः फण एव करो यस्य प्रहारसाधनत्वात्। दर्वी फणं करोति, इति वा । 'कृञो हेतु-' (३।२।२०) इति टः ।। इति स्वोपज्ञटीकायाम् ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org