________________
१७६
श्री विजयानंदाभ्युदयम् महाकाव्यम् ।। योग्यः प्रसंगस्तव नो कदापि । - भूपस्य राज्यस्य कलंकिनोऽतः ॥ अंभोजिनी किं न हता हताशा।
संगात्रियामारमणस्य॑ मह्याम् ॥४३ ।।
માટે હે રાણી ! આ કલંકી રાજાનો પ્રસંગ તને કોઈ પણ વખતે યોગ્ય નથી; (કેમકે) હણાએલી છે આશા જેણીની એવી પૃથ્વીમાં રહેલી કમલિની કલંકી એવા ચંદ્રના સંગથી શું હણાઈ नथी? (अर्थात् ९४ ७.) दीक्षा लभस्व त्वमतो मतिष्ठे ।
येनात्मतापस्तव शांतिमीयात् ॥ केल्पाश्रिता यत्किमु संभजते ।
मह्यां सदा तापकरस्य तापम् ॥ ४४ ।।
માટે હે બુદ્ધિવાન રાણી ! તું દીક્ષા ગ્રહણ કર, જેથી તારો આત્મતાપ શાંતિને પામે; કેમકે, (આ) પૃથ્વીમાં જેઓ હમેશાં કલ્પવૃક્ષને આશ્રિત થએલા છે, તેઓ શું સૂર્યના તાપને ભજે છે? (मर्थात् नथी ४ मता.) एवं निशम्याथ वचोऽस्य साधोः ।
साधारयद्धर्ममतिं मतीष्टा ॥ वृत्तं गृहीतुं च ववांछ जैनं। निर्वाणमार्गे वरयानतुल्यम् ॥ ४५ ।।
१. त्रियामांरमणस्य चंद्रस्येति-त्रयो यामा यस्याः । आद्यंतयोरर्धयामयोश्चेष्टाकालत्वेन दिनप्रायत्वात् ।। यद्वा त्रीन् धर्मादीन् यापयति निरवकाशीकरोति कामप्रधानत्वात् अंतर्भावितण्यर्थाद्याते: 'अर्तिस्तुसु'- (उ० १ । १४०) इति मन्सा त्रियामा तस्या रमणस्य स्वामिनो निशानाथस्येति यावदिति स्वोपज्ञटीकायाम्।। २. कल्पो विकल्पे कल्पद्रौ । संवर्ते ब्रह्मवासरे ॥ इति हेमचंद्रः ।।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org