SearchBrowseAboutContactDonate
Page Preview
Page 21
Loading...
Download File
Download File
Page Text
________________ ॥ पुण्यस्तवः ॥ अजातशत्रवे विश्वमित्राय स्नेहमूर्तये । सर्वेषां च हितं कर्तुं तत्पराय निसर्गतः ॥ १ ॥ महाविपश्चिते प्राच्यशास्त्रशोध-प्रकाशने । समर्पितस्वनिःशेषजीवनस्थामसम्पदे ।। २ ।। चारित्रोद्योतदीप्राय निःस्पृहायाभयाय च । श्रीपुण्यविजयायास्तु नमः पुण्यविभूतये ।। ३ ।। - मुनिन्यायविजयः माण्डल (वीरमगाम), वि. सं. २०२४, भाद्रपद-अमावस्या || प्रशस्तिपत्रम् ॥ आत्मानन्दमहर्षिशिष्यप्रमुखः प्रज्ञावतामग्रणीः ___ श्रीयुक्तो मुनिराजकान्तिविजयः प्रावर्तको गीयते । तच्छिष्यश्चतुरादिमो हि विजयश्चातुर्यशाली महान् तच्छिष्यो मुनिराजपुण्यविजयो जीयात्समाः शाश्वतीः ।। १ ।। धैर्योदार्यगुणैर्विराजितमना दाक्षिण्यदानैर्युतः ख्यातः साम्यगुणेन विश्वहितकृद् विद्याचणो बुद्धिमान् । कार्याकार्यविचारचारुधिषणः शास्त्रेषु पारङ्गमी सोऽयं श्रीमुनिराजपुण्यविजयो जीयात्समाः शाश्वती ॥ २ ॥ शास्त्राणामपिशोधने नवनवोन्मेषान्दधत्सर्वदा __ऐतिह्ये कुशलो विनोदरसिको ह्येकः पुरातत्त्वविद् । व्याख्याता च विशेषतः स्वसमये जैनागमे भास्करः सोऽय् श्रीमुनिराजपुण्यविजयो जीयात्समाः शाश्वती ॥३॥ कीर्तिर्यस्य च भारते शुचितमा जापानदेशे तथा जर्मन्यां च सुविस्तृता गतिमती दूरं ततो भूतले । साह्लादाश्च भवन्ति ते सुमनसः सम्मील्य साधूत्तमं । सोऽयं श्रीमुनिराजपुण्यविजयो जीयात्समाः शाश्वती ।।४।। भाण्डागारगतांश्च हस्तलिखितान् श्रीस्तम्भने पत्तने થી પુણ્યચરિત્રમ્ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.004548
Book TitlePunyacharitram
Original Sutra AuthorN/A
AuthorDharmadhurandharsuri
PublisherJain Vidya Shodh Samsthan
Publication Year2009
Total Pages252
LanguageGujarati
ClassificationBook_Gujarati & Literature
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy