________________
कालश्चेत्येके ॥ ३८॥ सोऽनन्तसमयः ।। ३९ ॥ द्रव्याश्रया निर्गुणा गुणाः ।। ४० ।। तद्भावः परिणामः ।। ४१ ॥ अनादिरादिमांश्च ।। ४२ ।। रूपिष्वादिमान् ।। ४३ ॥ योगोपयोगी जीवेषु ।। ४४ ॥
षष्ठोऽध्यायः ।
कायवाङ्मनःकर्म योगः ॥ १॥ स आस्रवः ॥ २॥ शुभः पुण्यस्य ।। ३॥ अशुभः पापस्य ।। ४ ॥ सकषायाकषाययोः साम्परायिकेर्यापथयोः ॥ ५ ॥ अव्रतकषायेन्द्रियक्रियाः पञ्चचतुःपञ्चपञ्चविंशतिसङ्ख्याः पूर्वस्य भेदाः ।।६।। तीव्रमन्दज्ञाताज्ञातभाववीर्याधिकरणविशेषेभ्यस्तद्विशेषः ।। ७ ।। अधिकरणं जीवाजीवाः ।। ८ ।। आद्यं संरम्भसमारम्भारम्भयोगकृतकारितानुमतकषायविशेषै
स्त्रिस्त्रिस्त्रिश्चतुश्चैकशः ।। ९ ।। निर्वर्तनानिक्षेपसंयोगनिसर्गा द्विचतुर्दित्रिभेदाः परम् ।। १० ।। तत्प्रदोषनिह्नवमात्सर्यान्तरायासादनोपघाता ज्ञानदर्शनावरणयोः ।। ११ ।। दुःखशोकतापाक्रन्दनवधपरिदेवनान्यात्मपरोभयस्थान्यसद्वेद्यस्य ।। १२ ।। भूतव्रत्यनुकम्पा दानं सरागसंयमादि योगः शान्तिः
शौचमिति सद्वेद्यस्य ॥ १३ ।। केवलिश्रुतसङ्घधर्मदेवावर्णवादो दर्शनमोहस्य ।। १४ ।। कषायोदयात्तीव्रात्मपरिणामश्चारित्रमोहस्य ।। १५ ।। बह्वारम्भपरिग्रहत्वं च नारकस्यायुषः ।। १६ ।।
१७.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org