________________
नाणोः ॥ ११ ॥ लोकाकाशेऽवगाहः ।। १२ ॥ धर्माधर्मयोः कृत्स्ने || १३ ॥ एकप्रदेशादिषु भाज्यः पुद्गलानाम् || १४ || असङ्ख्येयभागादिषु जीवानाम् ॥ १५ ॥ प्रदेशसंहारविसर्गाभ्यां प्रदीपवत् ॥ १६ ॥ गतिस्थित्युपग्रहो धर्माधर्मयोरुपकारः ।। १७ ।।
आकाशस्यावगाहः ।। १८ ।।
शरीरवाङ्मनः प्राणापानाः पुद्गलानाम् || १९ || सुखदुःखजीवितमरणोपग्रहाश्च ॥ २० ॥
परस्परोपग्रहो जीवानाम् ॥ २१ ॥
वर्तना परिणामः क्रिया परत्वापरत्वे च कालस्य ॥ २२ ॥ स्पर्शरसगन्धवर्णवन्तः पुद्गलाः ।। २३ ।।
शब्दबन्धसौक्ष्म्यस्थौल्यसंस्थानभेदतमश्छायातपोद्योतवन्तश्च ।। २४ ।।
अणवः स्कन्धाश्च ॥ २५ ॥ संघातभेदेभ्य उत्पद्यन्ते ॥ २६ ॥ भेदाः ||२७||
भेदसंघाताभ्यां चाक्षुषाः ॥ २८ ॥ उत्पादव्ययध्रौव्ययुक्तं सत् ।। २९ ।।
तद्भावाव्ययं नित्यम् || ३० ॥ अर्पितानर्पितसिद्धेः ॥ ३१ ॥ स्निग्धरूक्षत्वाद्बन्धः || ३२ ॥ न जघन्यगुणानाम् || ३३ ॥ गुणसाम्ये सदृशानाम् || ३४ ॥ यधिकादिगुणानां तु ॥ ३५ ॥ बन्धे समाधिकौ पारिणामिकौ ॥ ३६ ॥ गुणपर्यायवद् द्रव्यम् || ३७ ॥
Jain Education International
१६
For Private & Personal Use Only
www.jainelibrary.org