________________
अपरा पल्योपममधिकं च ॥ ३९ ॥
सागरोपमे || ४० ||
अधिके च ॥ ४१ ॥
परतः परतः पूर्वापूर्वानन्तरा ॥ ४२ ॥
नारकाणां च द्वितीयादिषु ॥ ४३ ॥ दशवर्षसहस्राणि प्रथमायाम् ।। ४४ ।।
भवनेषु च ।। ४५ ।।
व्यन्तराणां च || ४६ ॥ परा पल्योपमम् || ४७ ॥ ज्योतिष्काणामधिकम् ।। ४८ ।।
ग्रहाणामेकम् ।। ४९ ।।
नक्षत्राणामर्धम् ॥ ५० ॥
तारकाणां चतुर्भागः || ५१ ॥
जघन्या त्वष्टभागः ॥ ५२ ॥
चतुर्भागः शेषाणाम् || ५३ ॥
पञ्चमोऽध्यायः
अजीवकाया धर्माधर्माकाशपुद्गलाः ॥ १ ॥
द्रव्याणि जीवाश्च ॥ २॥ नित्यावस्थितान्यरूपाणि ॥ ३ ॥
रूपिणः पुद्गलाः ।। ४ । आकाशादेकद्रव्याणि ॥ ५ ॥
निष्क्रियाणि च ॥ ६ ॥
असङ्ख्येयाः प्रदेशा धर्माधर्मयोः ॥ ७ ॥
जीवस्य ॥ ८ ॥
आकाशस्यानन्ताः ॥ ९ ॥
सङ्ख्येयासङ्ख्येयाश्च पुद्गलानाम् || १० ||
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org