________________
तत्कृतः कालविभागः ।। १५ ॥
बहिरवस्थिताः || १६॥
वैमानिकाः ।। १७ ।। कल्पोपपन्नाः कल्पातीताश्च ।। १८ ।। उपर्युपरि ।। १९ ।।
सौधर्मेशानसानत्कुमारमाहेन्द्रब्रह्मलोकलान्तकमहाशुक्रसहस्रारे
ष्वानतप्राणतयोरारणाच्युतयोर्नवसु ग्रैवेयकेषु विजयवै
जयन्तजयन्ताऽपराजितेषु सर्वार्थसिद्धे च ॥ २० ॥
स्थितिप्रभावसुखद्युतिलेश्याविशुद्धीन्द्रियावधिविषयतोऽधिकाः ॥ २१ ॥
गतिशरीरपरिग्रहाभिमानतो हीनाः ॥ २२ ॥ पीतपद्मशुक्ललेश्या द्वित्रिशेषेषु ।। २३ ।।
प्राग् ग्रैवेयकेभ्यः कल्पाः ॥ २४ ॥ ब्रह्मलोकालया लोकान्तिकाः ॥ २५ ॥
सारस्वतादित्यवह्न्यरुणगर्दतोय तुषिताव्याबाधमरुतोऽरिष्टथश्च ॥ २६ ॥
विजयादिषु द्विचरमाः ॥ २७ ॥ औपपातिकमनुष्येभ्यः शेषास्तिर्यग्योनयः ।। २८ ।।
स्थितिः ।। २९ ।।
भवनेषु दक्षिणार्धाधिपतीनां पल्योपममध्यर्धम् ॥ ३० ॥ शेषाणां पादोने || ३१ ॥
असुरेन्द्रयोः सागरोपममधिकं च ॥ ३२ ॥
सौधर्मादेषु यथाक्रमम् ॥ ३३ ॥
सागरोपमे || ३४ ||
अधिके च ॥ ३५ ॥
सप्त सानत्कुमारे ॥ ३६ ॥
विशेषत्रिसप्तदशैकादशत्रयोदशपञ्चदशभिरधिकानि च ॥ ३७ ॥ आरणाच्युतादूर्ध्वमेकैकेन नवसु ग्रैवेयकेषु विजयादिषु सर्वार्थसिद्धे च ॥ ३८ ॥
Jain Education International
१४
For Private & Personal Use Only
www.jainelibrary.org