________________
प्रशस्ति "श्रीमद्वीरजिनेन्द्रपपदवीसीमन्तिनीमण्डनं, प्रख्यावानजनिष्ट हीरविजयः सूरिः सतामग्रणी। येनाऽकबरराट् प्रबोध्य विहितो दुष्कर्मकर्ताप्यहो, धर्मोक्त्या त्रिदिवस्य केशिगणिनेवाईः प्रदेशी नृपः ॥१।। अमलमलमकार्षीत्सद्गुरोस्तस्य पढें, विजयिविजयसेनः मूरिरुग्रप्रतापः। महति सदसि शाहेर्वादिनो निष्पतापान ; रविरिव निजगोभिस्तारकान् यद्वभूव(श्चकार) ॥२॥ विजयतिलकमूरिभूरिसरिमकृष्टो, दिनमणिरुदयाद्रौ तस्य पट्टे बभूव । कुमततिमिरमुग्रं मास्य शुद्धोपदेश-प्रसृमरकिरणैर्यों भव्यपद्मांश्चकार ॥३॥ तदीये पट्टेऽभूद्विजयिविजयानन्दसुगुरु-र्यशस्वी तेजस्वी मधुरवचनः सौम्यवदनः । कषायैर्निर्मुक्तः प्रशमगुणयुक्तः सुविहित-स्तपागच्छाधीशः सकलवसुधाधीशमहितः ॥४॥ जयति विजयराजः सूरिरेतस्य पट्टे, सकलगुणगरिष्ठः शिष्टलोक प्रशस्यः। प्रथितपृथुजयश्रीरुपपुण्यप्रभावः, कलितसकलशास्त्रः प्रास्तमिथ्यात्वजालः ॥५॥ तदनु पट्टपतिर्विहितोऽधुना, विजयराजतपागणभूभुजा। 'विजयमान ' इति प्रथिताहृयो, विजयतेऽतुलभाग्यनिधिः सुधीः ॥६॥
इतश्च-विजयानन्दसूरीणां, विनेया विनयान्विताः, श्रीशान्तिविजयावानाः, शोभन्ते पण्डितोसमाः ॥७॥ आजन्मादपि शीलसत्यमृदुताक्षान्त्या वाद्या गुणा, भूयांसो गुरुभक्तता च विपुला येषु प्रकृष्टा अपि । प्रोत्साहाय गुणार्थिनां स्वगुरुभियंक्तीकृता भूतले सर्वत्राखिलगच्छकार्यविनियोगेन प्रसन्नात्मभिः ॥ तेषां विनेय उदितादरतो विवक्रे, ग्रन्थं च मानविजयाभिधवाचकोऽमुम् । क्षुण्णं यदत्र मतिमन्दतया भवेत्तन्मेधाविभिर्मयि कृपां प्रणिधाय शोध्यम् ॥९॥ सत्तककर्कशधियाऽखिलदर्शनेषु, मूर्धन्यतामधिगतास्तपगच्छधुर्याः। काश्यां विजित्य परयूथिकपर्षदोऽध्या, विस्तारितप्रवरजैनमतप्रभावाः ॥१०॥ तर्कप्रमाणनयमुख्यविवेचनेन, प्रोद्बोधितादिममुनिश्रुतकेवलित्वाः । पर्यशोविजयवाचकराजिमुख्या, ग्रन्थेऽत्र मय्युपकृति परिशोधनाद्यैः [किल योजनायैः] ॥११॥ पाल इव मन्दगतिरपि (बालक इव मन्दगतिः), सामाचारीविचारदुर्गम्ये । अत्राभूवं गतिमां-स्तेषां इस्तावलम्बन ॥१२॥ [सिद्धान्तव्याकरणच्छन्दः-काव्यादिशास्त्रनिष्णातैः। लावण्यविजयवाचक-शरैः समशोधि शास्त्रमिदम् ॥१३॥] वर्षे पृथ्वी गुण मुनि चन्द्र' [१७३१] प्रमिते च माधवे मासे । शुद्धतृतीयादिवसे, यत्नः सफलोऽयमनिष्ट ॥१४॥ (किं च)-समग्रदेशोत्तमगुंजरेषु, अहम्मदाबादपुरे प्रधाने । श्रीवंशजन्मा मतिआभिधानो, वणिग्वरोऽभूच्छुभकर्मकर्ता ॥१५॥ नित्यं गेहे दानशाला विशाला, तीर्थोनत्यातीर्थराजादियात्रा । सप्तक्षेत्र्यां वित्तवापश्च यस्य, स्तोतुं प्रायो यस्मदाद्यैरशक्यः ॥१६॥ साधुः श्रीशान्तिदासः प्रवरगुणनिधिस्तत्सुतोऽभूदुदारो, धाग्यां विख्यातनामा जगहुसमधिकानेकसत्कृत्यकृत्या (कर्ता)। रङ्कानामन्नवस्त्रौषधसुवितरणाधेन दुष्कालनाम; प्रध्वस्तं शस्तभूता बहुविधिमहिता जातिसाधर्मिकश्च ॥१७॥ पुत्रन्यस्तसमस्तगेहकरणीयस्य स्फुटं वाईके, सिद्धान्तश्रवणादिधर्मकरणे बद्धस्पृहस्यानिशम् । सद्धर्मद्वयसंविधानरचनाशुश्रूषणोत्कण्ठिन-स्तस्य
૧૪-આ પ્રશસ્તિ બીજા ભાગને અંતે આપેલી છે છતાં અમે ઉપયોગી જાણે અહીં લીધી છે.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org