________________ भस्मसात्कृतानीति, तथा महत् प्रशस्तमाशंसादि दोषरहितत्वात् तपो यस्य स तथा, तथा उदारः प्रधानः अथवा ओरालो—भीष्मः, उग्रादि विशेषेण विशिष्ट तपः करणतः पार्श्वस्थानामल्पसत्त्वानां भयानक इत्यर्थः, तथा घोरो निघृणः परीषहेन्द्रियादिरिपुगण विनाशनमाश्रित्य निर्दय इत्यर्थः, अन्ये तु आत्मनिरपेक्षं घोरमाहुः, तथा घोरा—इतरैर्दुरनुचरागुणा मूलगुणादयो यस्य स तथा घोरैस्तपोभिस्तपस्वी तथा घोरं दारुणमल्पसत्त्वैर्दुरनुचरत्वाद् यद् ब्रह्मचर्यं तत्र वस्तुं शीलं यस्य स तथा। 'उच्छूढ़'—उज्झितं संस्कारपरित्यागात् शरीरं येन स तथा / संक्षिप्ता–शरीरान्तर्गतत्वेन ह्रस्वतां गता विपुला विस्तीर्णा अनेक योजन प्रमाण क्षेत्राश्रित वस्तु दहन समर्थत्वात् तेजोलेश्या विशिष्टतपोजन्य लब्धिर्विशेष प्रभवा तेजोज्वाला यस्य स तथा। चतुर्दश–पूर्वाणि विद्यन्ते यस्य स तथा, तेन तेषां रचितत्वात्, अनेन तस्य श्रुतकेवलितामाह—स चावधिज्ञानादिविकलोऽपि स्यादत आह—चतुर्ज्ञानोपगतः, मतिश्रुतावधिमनःपर्यायरूप ज्ञानचतुष्कसमन्वित इत्यर्थः। उक्त विशेषणद्वयकलितोऽपि कश्चिन्न समग्रश्रुतविषयव्यापिज्ञानो भवति, चतुर्दशपूर्वविदां षट्स्थानपतितत्वेन श्रवणात्, अत आह सर्वे च ते अक्षर सन्निपाताश्च-अक्षरसंयोगस्ते ज्ञेयतया सन्ति यस्य स तथा किमुक्तं भवति? या काचिज्जगति पदानुपूर्वी वाक्यानुपूर्वी वा सम्भवन्ति ताः सर्वा अपि जानाति अथवा श्रव्यानि श्रुतिसुखकारीणि अक्षराणि साङ्गत्येन नितरां वदितुं शीलमस्येति स तथा एवं गुणविशिष्टो भगवान् विनयराशिरिव साक्षादिति कृत्वा शिष्याचारत्वाच्च श्रमणस्य भगवतो महावीरस्य अदूरसामन्तेन विहरतीति योगः, तत्र दूरं विप्रकृष्टं सामन्तं संनिकृष्टं तत्प्रतिषेधाददूरसामन्तं तत्र नातिदूरे नातिनिकटेत्यर्थः, किं. विधः सन् तत्र विहरतीति? ऊर्ध्वं जानुनी यस्य स तथा, शुद्धपृथिव्यासनवर्जनादौपग्रहिक निषद्याया अभावाच्चोत्कुटुकासन इत्यर्थ, अधः शिरो—नोर्ध्वं तिर्यग् वा निक्षिप्त दृष्टिः, किन्तु नियत भूभागनियमितदृष्टिरित्यर्थः, ध्यान धर्मं शुक्लं वा तदेव कोष्ठः, कुशूलो ध्यानकोष्ठस्तमुपागतः। यथाहिकोष्ठके धान्यं निक्षिप्तमविप्रसृतं भवति एवं भगवानपि ध्यानतोऽविप्रकीर्णेन्द्रियान्तः करणवृत्तिरिथः, संयमेन–पञ्चाश्रवनिरोधादिलक्षणेन, तपसा-अनशनादिना . च शब्दोऽत्र समुच्चयार्थो लुप्तो द्रष्टव्यः, संयमतपसोग्रहणं चानयोः प्रधानमोक्षाङ्गत्वख्यापनार्थं प्राधान्यं च संयमस्य नवकर्मानुपादान हेतुत्वेन तपसश्च पुराणकर्मनिर्जरा हेतुत्वेन, भवति चाभिनवकर्मानुपादानात् पुराणकर्म क्षपणाच्च सकलकर्मक्षयलक्षणे मोक्ष इति, आत्मानं भावयन्–वासयन् विहरति तिष्ठतीत्यर्थः।" भावार्थ उक्त संदर्भ में श्री गौतम स्वामी की शारीरिक एवं आध्यात्मिक सम्पदा संक्षेप में वर्णित है। "जैसे—भगवान गौतम की संहनन वज्रर्षभनाराच थी जो कि अत्यन्त दृढ़ एवं शक्तिशाली होती है। उनके शरीर का वर्ण कसौटी पर घिसे हुए सोने की रेखा तथा पद्म कमल के पराग की भान्ति गौर और मनोहारी था। इस प्रकार विशिष्ट सौन्दर्य से युक्त होने पर भी उग्र तप करते थे जिसका साधारण व्यक्ति चिन्तन भी नहीं कर सकते। वे तप तथा धर्म ध्यान की जाज्वल्यमान ज्वाला से कर्म श्री उपासक दशांग सूत्रम् / 177 | आनन्द उपासक, प्रथम अध्ययन