________________ : 40 : सिद्धम् / -- जङ्गमं तु वसं चरम् ' इति हैमः / तिष्ठतीत्येवं शीलं स्थावरं पृथिव्यादि ‘स्थेशभास-' / 5 / 2 / 81 / इति वरः, भूतग्रामम्-प्राणिसमूहम् , पिता-जनकः, सुतमिव-पुत्रं यथा, संस्पृशन स्पर्श कुर्वाणः, द्राक्-शीघ्रम् , सुखयसि-आनन्दयसि, यथा तनयं तातः खहस्तेन संस्पृशन्नानन्दयति तथा त्वमपि सर्व जन्तुजातं निजशीतलकरैराह्लादयसीति भावः / क्रूरैः-तीक्ष्णैः, अतिशयैः उप्रैश्च, शूरप्रकटितकरैः-दिनकरप्रसारितकिरणैः, वीरविस्तारितैः शुल्कैः, हस्तैः, क्लिष्टलोकाम्-पीडितजनाम्, वसुधाम्-वसुन्धराम्, निर्भरम्-बाढम् अत्यर्थमितियावत् , विष्वक्-सर्वतोभावेन, निर्वापयसि-सान्त्वयसि-( इति-इतिहेतोः) सत्यमेव-नूनमेव, राजाराजपदाभिधेयः, असि-वर्त्तसे, -- राजा निशो रत्नकरौ च चन्द्रः / इति कोषाद्राजपदवाच्यश्चन्द्रमास्तच्च तदीयं नाम सार्थकम् ,तथाहियथालोके धनगृध्नुभी राजाभासैः स्थापितैरतिशयैर्घट्टैः अतिमर्यादैलिष्ठैः प्रसारितहस्तैः वसुधातलवासिजनपीडनद्वारा प्रपीड्यमानां पृथिवीं पालयन् सत्यो हि भूपालो राजपदभाक् भवति तथा त्वमपि प्रखरदिनकरकिरणैरुपद्राव्यमानां विश्वम्भरां निर्वापयन् सत्यमेव राजपदवाच्योऽसीतिभावः / उपमा * अन्यन्निषिध्य प्रकृत-स्थापन निश्चयः पुनः ' इति लक्षणलक्षितो निश्चयंश्चालङ्कारौ प्रकृते // 25 // ___ (26) पूर्ववर्णितपरिवारस्य परोपकारपरायणतायां निदानं भवानेवेत्याह एवमिति /