________________ एवं विश्वो-पकृतिकुशलः कः कुटुम्बे न तेऽस्ति, प्रायः सद्भिः प्रथितचरित-स्त्वादशैवर्णनीये / / यद्वा रत्ना-कर इति यशःप्राप युष्माभिरेवाऽम्भोधिर्वप्तु-र्भवति महिमो-दारसत्त्वैस्तनूजैः / 26 / (अन्वयः) एवं प्रथितचरितैः प्रायः सद्भिः त्वादृशैः वर्णनीये ते कटुम्बे कः विश्वोपकृतिकुशलः नास्ति, यद्वा अम्भोधिः युष्माभिरेव रत्नाकर इति यशः प्राप ( यतः ) उदारसत्त्वैः तनूजैः वप्तुः महिमा भवति // 26 // ___ (प्रकाशः )-एवम्-पूर्वदर्शितप्रकारेण, प्रथित चरितैःविततवृत्तान्तैः, प्रायः सद्भिः-प्रायशः सज्जनैः, प्रायः पदोपादानेन कदाचित्केषांचिच्चन्द्राद्या उपतापकरा अपि भवन्तीति सर्वथा सज्जनत्वं व्यावय॑ते, अतएव 'रजनिनाथ ! निशाचर ! दुर्मते!, विरहिणां रुधिरं पिबसि ध्रुवम् / उदयतोऽरुणता कथमन्यथा, तव कथञ्च तके तनुताभृतः // इत्यादिकवनमपि सङ्गच्छते। त्वादृशैः-तव तुल्यैः युष्मद् + दृश् / त्यदाअन्य- ' / 5 / 1 / 152 / इति टक् ' अन्यत्यदादेराः ' / 3 / 2 / 152 / इति आत्वं त्वादृशः / वर्णनीयेवर्ण नयोग्ये, प्रशंसनीय इति यावत् , ते-तव, कुटुम्बे-परिवारे, कः विश्वोपकृतिकुशलः-जगदुपकारदक्षः कः, नास्ति ?-न वर्तते, अपितु सर्व एवास्तीतिभावः / यद्वा-अथवा, अम्भोधिःसाग़रः, युष्माभिरेव-श्रीमद्भिरेव, रत्नाकर इति-रत्नानां निधिरिति, यशः ख्याति, प्राप-लेभे, भवादृशानां रत्नानामुत्पादनादेव लवणोदः रत्नाकरत्वेन प्रसिद्ध इतिभावः / यतः, उदारस