________________ : 42 : वैः-प्रकृष्टपराक्रमैः, तनूजैः-आत्मजैः, वन्तुः-जनकस्य -- वप्ता तु जनकस्तातः' इति हैमः / महिमा-महत्वम् , भवति-जायते, अर्थान्तरन्यासः // 23 // (27) _ अतः प्रार्थनां मे स्वीकुरु इत्याह तस्मादिति- . तस्माद्वन्धो ! जलधितनय ! प्रार्थनां मे समर्थ, व्यर्थीकर्तुं न खलु कथमप्य हैसि प्रौढवंश्य ! // येनोत्कृष्टं जगति विदितं याचमानस्य जन्तोर्याच्याभङ्गे भवति लघुता नैव सा किन्त्वमुष्य // 27 (अन्वयः ) बन्धो ! जलधितनय ! तस्मात् मे प्रार्थनां समर्थ, प्रौढवंश्य ! कथमपि व्यर्थीकर्तुं न खलु अर्हसि, येन जगति उत्कृष्टं विदितं याच्आभङ्गे याचमानस्य जन्तोः लघुता नैव भवति किन्तु सा अमुप्य ( भवति ) // 27 // ___ (प्रकाशः ) बन्धो !-अङ्ग आत्मीय ! बध्नाति स्नेहं बन्धुः 'भृमृतृ-' ( उणा० 716 ) इत्युः / जलधितनय-सागराङ्गज ! तस्मात-पूर्वोक्तहेतोः, मे-मदीयाम् , प्रार्थनाम्-याचनाम् , समर्थस्वीकुरु, सफलीकुर्वितियावत् , प्रौढवंश्य!-प्रवरकुलप्रसूत / प्र+ऊढः 'प्रस्यैषैष्योढो' 1 / 2 / 14 / इति प्रौढः, कथमपि-कथङ्कारमपि, व्यर्थीकर्तुम्-विफलयितुम् , न खलु-नैव,अर्हसि-प्रभवसि, योग्योऽसीतियावत् , कुतो न व्यर्थयितुं योग्य इत्याह येनेति येनयत्कारणात् , जगति-विश्वे, उत्कृष्टं विदितम्-प्रचुरप्रसिद्धम् , किं तत् ? याच्याभङ्गे-प्रार्थनातिरस्कारे याचमानस्य जन्तोः