________________ याचकजनस्य लघुता-अपकीर्तिः अवहेलनेत्यर्थः, नैव-नयेव, भवति-जायते, किन्तु-परन्तु, सा-लघुता, अमुष्य-तदस्वीकर्तुः भवतीतिशेषः / अर्थान्तरन्यासः / / 27 // (28) तव सामर्थ्यावहिर्भूतं न किञ्चिदप्यालोचयामीत्याह-नाशक्यमितिनाशक्यन्ते भुवनवलये मित्र ! पश्यामि किञ्चि त्तेजःपुञ्ज-रनतिजरठ-रक्रमाक्रान्तविश्व !! पादान् मूर्ध्नि त्रिपुरजयिनः कौतुकेनोपधायाहाय स्मेरी-कृतततजग-व्यापिशौर्यप्रतापः // 28 // ( अन्वयः ) मित्र ! अनतिजरलैः तेजःपुजैः अक्रमाक्रान्त विश्व ! ते भुवनवलये अशक्यं न किञ्चित् पश्यामि, कौतुकन त्रिपुरजयिनः मूनि पादान् उपधाय अह्नाय स्मरीकृतततजगद्वयापिशौर्यप्रताप: ( असि ) // 28 / / - (प्रकाशः) मित्र !-हे सखे ! अनतिजस्तैः-नातिकठिनैः, जीर्यति जरठः ‘मृजशू-' ( उणा० 167 ) इत्यठः ‘दृढः कठोरः कठिनो, जरठः, ' इति हैमः, मृदुभिरितियावत् / तेजःपुजैः-प्रभूतप्रभाभिः, किरणकलापैरित्यर्थः, अक्रमाक्रान्तविश्व !न क्रमः अक्रमस्तेनाक्रान्तं विश्वं येन तदामन्त्रणे, युगपदभिव्याप्तभुवन !, ते-तव, भुवनवलये-ब्रह्माण्डमाण्डोदरे, अशक्यम्असाध्यम् , न-नैव, किञ्चित्-किमपि, पश्यामि-आलोचयामि, कौतुकेन-कुतूहलात् , विनोदेनेतियावत् , त्रिपुरजयिन:-रुद्रस्य,