________________ त्रिपुरस्य जयी तस्य, शम्भोरामेयबाणेन त्रिपुरस्य प्लुष्टत्वात्तस्येयमभिधा,मूर्ध्नि-शिरसि, पादान्-चरणान् , किरणानितियावत् , उपधाय-स्थापयित्वा, अह्नाय-झटिति, अहायेति विभक्तिप्रतिरूपकमव्ययम्-यथा ' अह्नाय सा नियमजं क्लममुत्ससर्ज ' 'झटित्याशु मक्ष्वगाये 'ति हैमः, स्मेरीकृतततजगद्व्यापिशौर्यप्रताप:ततञ्च तत् जगत्, अस्मेरं स्मेरं कृतं स्मेरीकृतं स्मेरीकृतञ्च तत् ततजगत् तत्र व्यापी शौर्यस्य प्रतापो यस्य सः, विस्मयितविस्तृत. विश्वव्यापकवीर्योत्साहः, त्वमसीतिशेषः / विस्मयः // 28 // (29) / त्वत्प्रभावादेव ते भागिनेयो जयन्तो विश्वविजेता भगिनीपतिः कृष्णश्च त्रिखण्डाक्रान्तविक्रमः संवृत्त इति वर्णयति काममिति / कामं क्षामा-कृतिमपि जग-धजयन्तं न कोऽपि, च्छेत्तुं शक्त-स्तदिह भवतो मातुलस्यानुभावात् / / गोपालोऽपि त्रिभुवनमिदं क्रान्तवान् यत् त्रिपद्या, तत्राप्येतत् प्रभवति तव श्यालकस्यैव तेजः // 29 // (अन्वयः) यत् क्षामाकृतिम् अपि जगत् जयन्तं कामं कोऽपि छेत्तुं न शक्तः तत् इह मातुलस्य भवतः अनुभावात्, यत् गोपालोऽपि इदं त्रिभुवनं त्रिपद्या क्रान्तवान् तत्रापि एतत् श्यालकस्य तवैव तेजः प्रभवति / / 29 // (प्रकाशः) यत्-यतः, क्षामाकृतिमपि-क्षीणकायमपि अतनुमितियावत् : +क्तः / क्षैशुषिपचो मकवम् ' / 4 / 2 / 78 / इति तस्य मत्वम् , क्षामः / जगत्-संसारम् , जयन्तम्-पराभवन्तम् ,