________________ : 39 : श्रान्तम्-अशान्तम् , खिन्नमित्यर्थः, अखिलं भुवनम्-समस्तसंसारम् , निद्रादानात्-शयनसम्प्रदानात् , ' यदा तु मनसि क्लान्ते, कर्मात्मानः क्लमान्विताः / विषयेभ्यो निवर्तन्ते, तदा स्वपितिमानवः / ' इत्युक्तहेतुके शयने / नियतं द्रान्तीन्द्रियाण्यस्यां मिद्रा 'निद्रा प्रमीला शयनम् ' इति हैमः / सुखयति-विश्रामयति आदिवसं व्यापार विधाय परिश्रान्तः संसारस्त्रियामायामागतायां नन्दी'मुखीमागृह्यानुभवति सुखमितिभावः // 24 // (25) . अथेन्दुमेवाभिष्टौति पीयूषा,रितिपीयूषार्दै-स्त्वमपि किरण-जङ्गमस्थावराख्यं, भूतग्रामं सुखयसि सुतं संस्पृशन् द्राक् पितेव !! क्रूरैः शूर-प्रकटितकरै-निर्भरं क्लिष्टलोकां, विष्वग्निर्वा-पयसि वसुधां सत्यमेवासि राजा॥२५॥ ( अन्वयः ) त्वमपि पीयूषाः किरणैः जङ्गमस्थावराख्यं भूतग्राम पिता सुतमिव संस्पृशन् द्राक् सुखयसि, क्रूरैः शूरप्रकटितकरैः क्लिष्टलोकां वसुधां निर्भरं विष्वग् निर्वापयसि (इति ) सत्यमेव राजा असि // 25 // (प्रकाशः) त्वमपि-श्रीमानपि, पीयूषाः-सुधास्तिमितैः, अर्दति आर्द्रः ‘चिजि-' ( उणा० 392 ) इतिरः दीर्घत्वञ्च 'स्तिमितक्लिन्नसाा-द्रोन्नाः' इति हैमः। किरणैः-करैः, जङ्गमस्थावराख्यम्-चराचररूपम् , गच्छतीति जङ्गमः ‘गमेर्जम् च वा ' ( उणा० 13) इति अप्रत्यये द्वित्वे पूर्वस्य च जमादेशे