________________ : 38 : साऽपि श्रान्तं भुवनमखिलं स्वस्वकर्मश्रमेण, .. निद्रादानात् सुखयति सदाऽ-भीष्टविश्वोपकारा / 24 __(अन्वयः ) सुभग ! या ते दयिता श्यामा उपलक्ष्मी वर्धयति, इन्दो ! यया विप्रयुक्तः त्वं पक्वं पर्ण तुलयसि, सा अपि सदा अभीष्टविश्वोपकारा स्वस्वकर्मश्रमेण श्रान्तम् अखिलं भुवनं निद्रादानात् सुखर्यात // 24 // (प्रकाशः ) सुभग :-हे ऐश्वर्यशालिन् ! या-या यामिनी, ते-तव, दयिता-प्रेयसी 'प्रेयसी दयिता कान्ते' ति हैमः / श्यामा-रजनी 'रजनी वसतिः श्यामा....दोषेन्दुकान्ते'ति हैमः / अत्र श्यामापदप्रयोगेण * शीतकाले भवेदुष्णा, ग्रीष्मे च सुखशीतला / तप्तकाञ्चनवर्णाभा, सा स्त्री श्यामेति कीर्तिते ' त्युक्तलक्षणलक्षितललनाविशेषो व्यज्यते / उग्रलक्ष्मीम् -प्रकृष्टशोभाम् , ते इत्यस्येहाप्यन्वयस्तथा च तव पूर्णप्रभामितिफलितम् , वर्धयतिएधयति, सत्यां रजन्यामेव रजनीनाथस्य तव प्रभा प्रसरतीति यावत् / इन्दो !-हे शशिन् ! यया-श्यामया, विप्रयुक्तः-विरहितः, त्वम्--निशापतिः, पक्वं पर्णम्-परिणतपत्रम् , पाण्डुरदल. मितियावत् , पच्यते स्म पच् + क्तः ‘शुषिपचो मकवम् / / 4 / 2 / 78 / इति तस्य वकारादेशे पक्वम् / ' पक्के परिणतम् ' इति हैमः / तुलयसि-सादृश्यमातनोषि, रजनीरमणीविरही चन्द्रः दिवसारण्ये पाण्डुरतामासाद्य परिणतपत्रेण सादृश्यमनुभवतीतिभावः, यदुक्तं ' यद्वासरे भवति पाण्डुपलाशकल्पम् ' इति / साऽपिपूर्वोपवर्णितश्यामाऽपि, सदा-अनिशम् , अभीष्टविश्वोपकाराईप्सितजगदुपकृतिः, स्वस्त्रकर्मश्रमेण-निजनिजकार्यजनितक्लेशेन,