________________ : 37 : च श्रियः प्रभावात् मूर्खमपि मनुष्यं जनः कोविदं मनुते इति फलितम्) अस्यां सूक्तावग्रेऽप्येवमेवावसेयम् / प्राज्ञशब्दाद् -- आधाराचोपमानादाचारे ' / 3 / 4 / 24 / इतिक्यन् / क्यनि' / 4 / 3 / 112 / इत्यस्य ईत्वम्-प्राज्ञीयति। कुतनुं च-कुत्सितकायं च, लावण्यरहितशरीरमपीतियावत् / द्राक्-शीघ्रम् , कामरूपीयति-कन्दर्पसौन्दर्येणोपचरति, दीनम्-रकम् , प्रतापहीनमितियावत् , शूरीयति-वीरतया व्यवहरति, कुटिलं च-वक्रम् अविनीतमपि, अबश्यम्-निश्चितम् , यद्वा वशे तिष्ठतीति वश्यः न वश्यः अवश्यस्तम् , स्वैरिणमिति कुटिलस्य विशेषणतयाऽन्वेयम् , प्राञ्जलीयति-सरलतयोपचरति, ऋजुस्तु प्राञ्जलोऽञ्जसः' इति हैमः, प्राञ्जलयति अञ्जलिं प्रबध्नाति प्राञ्जलः / क्रूरम्-अशान्तम् , क्रोधितमित्यर्थः, शान्तीयति-शान्तमिवाचरति, गतकलम्-कलाविहीनम् , अजस्त्रम्-अनवरतम् , न जस्यतीत्येवं शीलम् अजस्रम् 'स्म्यजस-' / 5 / 2 / 79 / इति रः, ' नित्यानवरताजस्रा-' इति हैमः। सत्कलीयति-सत्कलमिवाचरति, कुशलकलाकलितत्वेनोपचरतीतियावत्, सोऽयम्-कथितोऽसौ प्रभावः, निखिलः-समस्तः, त्वद्भगिन्या:श्रीमत्सोदरायाः, लक्ष्म्या इत्यर्थः प्रभावः-माहात्म्यम् , जयतिविजयतेतराम् / उपमा // 23 // __(24) अथेन्दुप्रियां यामिनी वर्णयति या ते इतिया ते श्यामा सुभग ! दयिता वर्धयत्युग्रलक्ष्मी, पक्कं पण तुलयसि यया विप्रयुक्तस्त्वमिन्दो ! //