________________ : 36 : प्रमुखाः, वसति स्वगें वासवः ‘मणिवसेर्णित् ' ( उणा० 516) इत्यवः, वसुरेव वा प्रज्ञाद्यण, वस्वपत्यं वा, 'इन्द्रो हरिः....... पुरुहूतवासवौ' इति हैमः / नाकिनः-स्वर्गवासिनः देवता इति यावत् , अभीष्टम्-आकासितम् , अभिलषितमितियावत् , याचन्ते-प्रार्थयन्ते, याच्धातोः / नीहृवहिकृषो ण्यन्ता, दुहिब्रूप्रच्छिभिक्षिचिरुधिशास्वर्थाः / पचियाचिदण्डिकृग्रह-मथिजिप्रमुखा द्विकर्माणः' इति द्विकर्मकतया यच्छब्दान्मुख्ये कर्मणि अभीष्टशब्दाच्च गौणे कर्मणि द्वितीया सूपपन्ना // 22 // (23) . अथेन्दुभगिनीप्रभावं प्रदर्शयति मूर्खमितिमूर्ख प्राज्ञी-यति च कुतनुं कामरूपीयति द्राक्, दीनं शूरी-यति च कुटिलं प्राञ्जलीयत्यवश्यम् / क्रूरं शान्ती-यति गतकलं सत्कलीयत्यजस्रं, लोकं सोऽयं जयति निखिल-स्त्वद्भगिन्याः प्रभावः। ( अन्वयः ) ( यः ) मूर्ख लोकं प्राज्ञीयति (लोकमित्यस्य सर्वत्र द्वितीयान्तेनान्वयः कर्तव्यः ) कुतनुं च द्राक् कामरूपी यति दीनं शूरीयति कुटिलं च अवश्यं प्राञ्जलीयति, क्रूर शान्तीयति गतकलम् अजस्त्रं सत्कलीयति सोऽयं निखिलः त्वद्भगिन्याः प्रभावः जयति // 23 // (प्रकाशः) (यः प्रभावः) मूर्ख लोकम्-अज्ञानिने जनम्, पामरमितियावत्, प्राज्ञीयति-प्राज्ञमिवाचरति, मूर्ख प्राज्ञत्वेनोपचरतीत्यर्थः अन्तर्भावितण्यर्थत्वे तूपचारयतीत्यर्थोऽवसेयः / तथा