________________ : 35 : . ( 22) अथ चन्द्रभ्रातरं कल्पतरूं वर्णयति-जीयासुरिति / जीयासुस्ते जगति विदिता भ्रातरः पञ्च चश्चन्माहात्म्यास्ते वितरणभटाः पारिजातद्रुमाद्याः॥ द्राकसंकल्पो-पनतसकला-भीप्स्तिा अप्यभीष्टं, याचन्ते यान् विनयविनता नाकिनो वासवाद्याः॥२२॥ ( अन्धयः) ते जगति विदिताः चञ्चनमाहात्म्याः वितरणमटाः पारिजातद्रमाद्याः ते पञ्च भ्रातरः जीयासुः, यान् द्राक संकल्पोपनतसकलाभीप्सिताः अपि विनयविनताः वासवाद्याः नाकिनः अभीष्टं याचन्ते // 22 // (प्रकाशः ) तें-अग्रे वर्णनीयाः, जगति विदिताः-भुवनप्रसिद्धाः, चञ्चन्माहात्म्याः -विलसत्प्रभावाः, वितरणभटाः-दानशौण्डीराः, वदान्या इतियावत् , पारिजातद्रुमाद्याः-तत्तदभिधेयविट पिविशेषाः ते च यथा-'वृक्षाः कल्पः पारिजातो, मन्दारो हरिचन्दनः / सन्तानश्च ' इति हैमः, पारिणः पारवतोऽब्धेर्जातः पारिजात इति, ते पञ्चभ्रातरः-त्वदीयपञ्चसहोदराः, पारिजातस्य समुद्रसुतत्वेन सहजत एवेन्दोः सहजत्वमायातम् , एवञ्च पारिजातस्य पश्चभ्रातृतया चन्द्रमसोऽपि ते पञ्चभ्रातर इतिभावः / जीयासुःजयन्तुतंराम् , यान्-ते के इत्याकाङ्क्षापूरकान् यान् कल्पतरून् , द्वाक्संकल्पोपनतसकलाभीप्सिताः अपि-द्राक् संकल्पेन उपनतं सकलम् अभीप्सितं येषां ते, तत्क्षणमेव समीहामात्रसमाप्तसमस्तसमीहिता अपि, विनयविनताः-विनयविनम्राः, वासवाद्याः-इन्द्र