________________ : 34 : भयो भयो नि पापितसिवा पाञ्चजन्यश्च-शङ्खविशेषमपि, पञ्चजने पाताले भवः पाञ्चजन्यः 'गम्भीर-पञ्चजनबहिर्देवात् ' / 6 / 3 / 135 / इति ज्यः, 'पाञ्चजन्य हृषीकेशः' इति गीता, अदात-समर्पयत्, एवम्-अमुना प्रकारेण, विशिष्टवस्तुवितरणद्वारेतियावत्, ‘एवं वादिनि देवर्षों ' इति कुमारः / विश्वम्भरम्-श्रीधरम् , विश्वं बिभर्ति-विश्वम्भरस्तम् 'भृवृजि-' / 5 / 1 / 112 / इति खः, 'विश्वम्भरः श्रीधरविश्वरूपौ' इति हैमः / अतितमाम्-अत्यन्तम् , अतिशब्दात् 'प्रकृष्टे तमप्' / 7 / 3 / 5 / इति तमप् ‘किन्त्याद्येऽव्यया-'।७।३।८। इति आम्अतितमाम् , प्रीणयामास-सन्तोषयामास, यत्-यतः, लोभात्भूयोभूयो निनीषया, अद्यापि-साम्प्रतमपि, उत्तमोऽपि-महानपि, श्वशुरवसतिम्-पत्नीपितृनिवासम् , सुशोभनमश्नुते अश्नाति वा श्वशुरः ‘श्वशुरकुकुन्दर-' ( उणा० 426) इत्युरे निपात्यते, न सन्त्यजति-नैव जहाति, भावार्थस्त्वयम्-हे चन्द्र ! बहुदिनं यावदेकर स्थाने स्थितेऽतिपरिचयाज्जनानां माननीयताऽपगच्छति अतः कोविदैर्बहुदिनमेकत्र न स्थेयम् ‘सन्तत-गमनादनादरो भवति' इति उक्तिरपि, तत्रापि विशेषेण श्वशुरालये यदुक्तम्-' श्वशुरगृहनिवासः स्वर्गतुल्यो नराणां, यदि भवति विवेकी पञ्च वा षड् दिनानि / दधिघृतमधुलोभान्मासमेकं वसेच्चेत् , स भवति खरतुल्यो मानवो मानहीनः // ' परं तव तातपादेन समुद्रेण तथा निजजामातुः सन्मानमकारि येन विवेक्युत्तमोऽपि सन् स तत्रैव चिरवासं वसति पूर्वोक्तकथनञ्च विपर्यास्ते चरितार्थयति च ' असारे खलु संसारे, सारं श्वशुरमन्दिरम् / महोदधौ हरिः शेते, हरः शेते हिमालये' इति // 21 //