________________ : 33 : (21) अप्यपांनिधेविष्णवे वितरणं वर्णयति-कन्यामिति कन्यां दत्त्वा जगति विदितां यौतके कौतुकी च, योऽदान्मोदा-युगपदमलं कौस्तुभं पाञ्चजन्यम् // एवं विश्वम्भरंमतितमां प्रीणयामास लोभाद्, यन्नाद्यापि श्वशुरवसतिं संत्यजत्युत्तमोऽपि // 21 // (अन्वयः) यौतके कौतुकी यः मोदाद् युगपत् जगति विदितां कन्यां दत्त्वा अमलं कौस्तुभं पाञ्चजन्यं च अदात् एवं विश्वम्भरम् अतिता प्रीणयामास यत् लोभाद् अद्यापि उत्तमोऽपि श्वशुरवसतिं न सन्त्यजति // 21 // / (प्रकाशः) यौतके-दम्पत्योर्देये, दाये तथा च हैमः 'यौतकं युतयोर्देयं सुदायो हरणञ्च तत्' इति, ‘यौतकादिधनं दायो दयो दानमुदाहृतम् ' इति शाश्वतः, कौतुकी-कुतूहलवान् , अत्युदार इति यावत् , य-समुद्रः, मोदात्-आनन्दात्, युगपत्एकदैव, जगति विदिताम्-विश्वविश्रुताम्, कन्याम्-कुमारीम् , कनति दीप्यते कन्या ' स्थाछा-' (उणा० 357) इति यः, 'कन्या कनी कुमारी च' इति हैमः / लक्ष्मीमितियावत् , दत्वाउद्वाह्य, अमलम्-स्वच्छम्, कौस्तुभम्-कुं भुवं स्तोभते व्याप्नोति कुस्तुभोऽब्धिस्तस्यायं कौस्तुभस्तम् ‘कौस्तुभस्तु महातेजाः कोटिसूर्यसमप्रभः' इत्यभिवर्णितं मणिविशेषम् , अयं हि विराजते विष्णोर्वक्षःस्थले यदुक्तं हैमे-' भुजमध्ये तु कौस्तुभः' इति /