________________ अश्वं चोच्चैः-श्रवसमसमं नागमैरावतं च, दत्त्वेन्द्रस्य त्रिभुवनपतेः पूरयामास वाञ्छाम् // 20 // .. ( अन्वयः) नु तव जनयितुः तस्य दानप्रियत्वं किं ब्रूमः यः देवानाम् अमृतैः सततं वृत्तिं कल्पयामास च असमम् उच्चैःश्रवसम् अश्वम् ऐरावतं च नागं दत्वा त्रिभुवनपतेः वाच्छां पूरयामास / (प्रकाशः) नु-वितर्के, तव जनयितुः-पितुस्ते पाथोघेः, तस्य-रत्नाकरस्य, दानप्रियत्वम्-वदान्यत्वम् , किं ब्रूमः-किंस्वित् कथयामः, य-तत्पदोपस्थाप्याकाङ्क्षायामाह यः इति योऽ. ब्धिः, देवानाम-सुधाशनानां सुराणाम् , अमृतैः-पीयूषैः, सततम्अनारतम् , वृत्तिम्-जीविकाम् , कल्पयामास-निर्वाहयाञ्चकार, च-पुनः, असमम्-अनुपमम् , उच्चैःश्रवसम्-वृषणश्वम् ‘उच्चैःश्रवा हयः' इति हैम: 'वृषणश्वो हरेर्हये' इति शेषः, अश्वम्-तुरगम् , ऐरावतश्च-अभ्रमातङ्गञ्च, नागम्-द्विरदम् , 'स्तम्बेरमद्विरद-सिन्धुरनागदन्तिनो' इति हैमः / दत्त्वा-समर्प्य, वितीयेतियावत् , त्रिभुवनपतेः-स्वर्गपतेः, तृतीयं भुवनं त्रिभुवनम् , 'भूर्भुवः स्वः' इतिश्रुतेः अत्र मयूरव्यंसकादित्वात् समासे पूरणप्रत्ययलोपः, स्वर्गस्तस्य पत्युः, ननु पत्युरितिवत् त्रिभुवनपतेरित्यत्रापि -- खिति. खितीय उर्' / 1 / 4 / 36 / इत्युरादेशः कुतो नेति चेन्न दृष्टान्ते 'ङित्यदिति' / 1 / 4 / 23 / इति विहितस्यैत्वस्य 'ननाङिदेत्' / 1 / 4 / 27 / इति निषेधेऽपि दार्टान्तिके केवलविरहेण निषेधाप्राप्त्या एत्वप्रवृत्तेः सुवचत्वेन यत्वाभावादुरभावात् / इन्द्रस्य-देवराजस्य, वाञ्छाम्-अभिलाषम् , पूरयामास-अपीपुरत् // 20 //