________________ : 31 : प्रतीतौ व्यर्थमम्बुविशेषणमिति चेत् सत्यम् , परं ' विशिष्टवाचकपदानां सति पृथग्विशेषणवाचकपदसमवधाने विशेष्यमात्रपरत्वम्' इतिनियमेन पूरशब्दस्य वृद्धिमात्रबोधकत्वेन विशेषणसङ्गतेः, अतएव 'सकीचकैर्मारुतपूर्णरन्धैः' इति कविकालिदासकवनमपि सङ्गच्छते। वर्षेवर्षे-प्रतिवर्षम् , 'वीप्सायाम् ' / 74 / 80 / इतिद्विः, तरुणतपनोदामतापाभितप्तम्-तरुणश्चासौ तपनः, उद्दामा चासौ तापः तरुणतपनस्योद्दामतापस्तेनाभितप्तम्-चण्डार्कप्रचण्डप्रतापपीडितम् , विश्वं विश्वम्-समस्तसंसारम्, सेचं सेचम्-सिक्त्वा सिक्त्वा ‘रुणं चाभीक्ष्ण्ये ' / 5 / 4 / 48 / इति पौनःपुन्ये गम्ये रुणम् 'भृशाभीक्ष्ण्या-'।७।४।७३। इति द्विरुक्तिः अत्र बहुत्र सेकं सेकमितिपाठः समुपलभ्यते परं ख्णमित्यस्य घित्वाभावात्सिच्धातोश्वस्य कत्वाभावेन स त्यक्तः, सदा-सततम् , सुखयति-सान्त्वयति, नन्वत्र -- पश्ये'त्यस्य कर्मत्वेन -- रत्नाकरोऽसा 'वित्यत्र द्वितीया कथं नेति चेत्सत्यम् , परं ' रत्नाकरोऽसौ....सुखयती 'ति वाक्यस्य नामत्वाभावेन द्वितीयाया अप्राप्तेः, अत एव -- पश्य मृगो धावती' त्यादि वहुशः उपलभ्यते प्राचां प्रयोगः // 19 // . (20) देवराजादिदेवेभ्यः पीयूषाश्वादिप्रदानेन पारावारस्य वदान्यतां वर्णयति-किंनु इति-- किंनु ब्रूम-स्तव जनयितु-स्तस्य दानप्रियत्वं, यो देवानां सततममृतैः कल्पयामास वृत्तिम् // .