________________ : 30 : आदेश्च यकारादेशः / श्लोकः कीर्तिर्यशोऽभिख्या समाज्ञा ' इति हैमः, प्राय:-बाहुल्येन, प्रार्थनाभङ्गभीताः-याचनास्खलनीरवः, भवन्तीतिशेषः / अर्थान्तरन्यासः // 18 // __(19) अथ पीयूषरश्मेः परिवारस्य परोपकारपरायणतां प्रदर्शयन् प्रथमं तावत् तपितुः पयोधेः पयोधरद्वारा विश्वाय पयोदानं वर्णयति भ्रातस्तातेति- . भ्रातस्तात-स्तव गुणनिधिः पश्य रत्नाकरोऽसौ, वर्षे वर्षे नवजलधर-प्रापितैरम्बुपूरैः॥ विश्वं विश्वं तरुणतपनो-दामतापाभितप्तं, सेचं सेचं सुखयति सदाऽभीष्टविश्वोपकारः // 19 // ( अन्वयः) भातः ! पश्य तव तातः अभीष्टविश्वोपकारः गुणनिधिः असौ रत्नाकरः नवजलप्रापितैः अम्बुपूरैः वर्षे वर्षे तरुणतपनोदामतापाभितप्तं विश्वं विश्वं सेवं सेचं सदा सुखयति // 19 // (प्रकाशः) भ्रातः!-बन्धो !, पश्य-अवलोकय, तव तातःतावकीनो जनकः, अभीष्टविश्वोपकारः-विश्वस्य उपकारः, अभीष्टः विश्वोपकारः यस्य सः, समीप्सितजगदुपकृतिः, गुणनिधिः-सद्गुणसेवधिः, असौ-विश्वविख्यातः, रत्नाकरः-वारांनिधिः, नवजलधरप्रापितैः-धरतीतिधरः जलानां धरः नवश्चासौ जलधरस्तेन प्रापितास्तैः प्रावृट्पयोदनीतैः, अम्बुपूरैः-अम्बुवृद्धिभिः, * अम्बुवृद्धौ पूरः प्लवोऽपि च ' इति हैमबलेन पूरशब्दादेव अम्बुवृद्धिरूपार्थ