________________ : 29 : श्रुत्वा याच्यां मम हिमरुचे! न प्रमादो विधेयो, नो वावज्ञाऽभ्यधिकविभवो-न्मत्तचित्तेन कार्या / / प्रेमालापै-श्चतुरवनिता-निर्मितैर्विस्मृतिर्न, प्राप्या प्रायः प्रथितयशसः प्रार्थनाभङ्गभीताः // 18 // (अन्वयः ) हिमरुचे ! मम याच्यां श्रुत्वा प्रमादो न विधेयः वा अभ्यधिकविभवोन्मत्तचित्तेन अवज्ञा नो कार्या, चतुरवनितानिर्मितैः प्रेमालापैः विस्मृतिः न प्राप्या ( यतः) प्रथितयशसः प्रायः प्रार्थनाभङ्गभीताः। (प्रकाशः) हिमरुचे ! हे शीतकिरण ! मम-मदीयाम् , यानाम्-प्रार्थनाम् , याच्धातोर्नङ्प्रत्यये नङ्प्रत्ययान्तस्य 'पुंल्लिङ्गं कटण...। ननडौ...' इति हैमलिङ्गानुशासनेन पुंस्त्वेऽपि याच्नेत्यत्र स्त्रीत्वं ' मृगयेच्छायाच्या' 5 / 3 / 101 // इति निपातनादवसेयम् / श्रुत्वा-निशम्य, प्रमादः-अनवधानता, 'प्रमादोऽनवधानता' इति हैमः। न-नहि, विधेयः-कर्तव्यः / वा-अथवा, अभ्यधिकविभवोन्मन्तचित्तेन--अभ्यधिकश्चासौ विभवस्तेनोन्मत्तं चित्तं यस्य स तेन चञ्चच्चन्द्रिकामृतप्रभृतिप्रचुरैश्वर्यगर्वगर्वितमानसेन, नो-नैव, अवज्ञा-अवहेलना, कार्या-विधातव्या, चतुरवनितानिर्मितैः--दक्षदयिताप्रयुक्तैः, प्रेमालापैःप्रणयपूरितवचोभिः, पथि त्वदर्शनसञ्जाताहादाह्रादितरमणीप्रयुक्तप्रियचाटूक्तिभिरिति यावत् , विस्मृतिः-विस्मरणम् , न प्राप्यानावलम्बनीया, यतः प्रथितयशसः-विश्रुतदिगन्तसमाज्ञाः, अनुते व्यामोति दिशः यशः / अशेर्यश्चादिः ' ( उणा० 958 ) इत्यस्