________________ : 28 : शान्ति नीते श्रम इति ततश्चेतसि स्वास्थ्यमाप्ते, दत्त्वा कर्णा-ववहितमनाः श्रोष्यसि प्रार्थनां में // न प्रान्तानां सुखयति कथा लिग्धवर्गोंदिताऽपि, स्वस्थे चित्ते प्रणयमधुरा बुद्धयो अ॒द्भवन्ति // 17 // -- (अन्वयः) इति श्रमे शान्ति नीते ततः चेतसि स्वास्थ्यम् आप्ते अवहितमना कर्णों दत्त्वा मे प्रार्थनां श्रोष्यसि, श्रान्तानां स्निग्धवर्गोंदिता अपि कथा 'न सुखयति हि चित्ते स्वस्थे प्रणयमधुरा बुद्धयः उद्भवन्ति // 17 // __ (प्रकाशः) इति-चतुर्दशसूक्तोक्तप्रकारेण, श्रमे-परिश्रमे, शान्ति नीते-सान्त्वनामाप्ते, अपगत इति भावः,ततः-तदनन्तरम् , चेतसि-मानसे, स्वास्थ्यमाप्ते-कुशलमधिगते-खस्थीभूते इति यावत् , अवहितमना:-अवहितं मनो यस्यासौ, अव+धा+क्तः 'धागः' / 4 / 4 / 15 / इति द्यादेशे अवहितम् , एकाग्रहृदयः, कर्णी दचा-श्रवणौ प्रदाय सावधानीभूयेतियावत् , मे-मम, प्रार्थनाम्निवेदनम् , श्रोष्यसि-अवकर्णयिष्यसि, श्रान्तानाम्-पथश्रमजनितखेदानाम् , स्निग्धवर्गोदिताऽपि-प्रियजनताकथिता अपि, कथा-वार्ता, न-नहि, सुखयति-प्रीतिं जनयति, हि-यतः, चित्ते स्वस्थे-चेतसि कुशलकलिते सति, प्रसन्ने स्वान्ते सतीतियावत् , प्रणयमधुरा-स्नेहसुन्दरा उल्लसद्रसतरङ्गतरङ्गिता इति यावत् , बुद्धयः-धियः, उद्भवन्ति-प्रादुर्भवन्ति / अर्थान्तरन्यासः // 17 // . (18) . अथेन्दोः सावधानं करोति श्रुत्वेति- .