________________ : 27 : प्रीति तद्वत् प्रियसख ! मम प्रापिता चित्तवृत्तितोत्पत्तौ रहसि भवता गच्छता बन्धुना द्राक्॥१६॥ (अन्वयः ) यद्वत् शोषकालोपपन्नः तोयदः तोयवृश्या तीवातपपरिचयात् खिन्नां कृषि सिञ्चन् सुखयति तद्वत् प्रिय. सख ! रहसि वार्तोत्पत्ती मम चित्तवृत्तिः गच्छता बन्धुना भवता द्राक् प्रीतिं प्रापिता / / 15 / / (प्रकाशः ) यद्वत्-यथा, शोषकालोपपन्नः-ग्रीष्मसमयसम्भूतः, तोयदः-पयोधरः, तोयवृष्ट्या-वारिवर्षणेन, तीव्रातपपरिचयात्-निशितभानवीयभानुसम्पर्कतः, खिन्नाम्-परिभूताम् , खिद्+क्तः- रदादमूर्छामदः-' / 4 / 2 / 69 / इति खिन्नाम्। कृषिम्-अनृतम् , 'अनृतं कृषिः' इति हैमः, सिञ्चन्-प्लावयन् , सुखयति-सुखं ददाति, तद्वत्-तथा, प्रियसख!-हे स्नेहिन् ! प्रियश्वासौ सखा प्रियसखः 'राजन्सखेः' / 7 / 3 / 106 / इत्यर् , रहसिएकान्ते, वार्तोत्पत्तौ-अभिवन्दनोदन्ताविर्भावे, मम-मदीया, खिन्नामित्यस्य विभक्तिव्यत्ययेन चित्तवृत्तावप्यन्वयः तथा च खिन्ना चित्तवृत्तिः-अभिभूतमनःप्रवृत्तिः, गच्छता-अतता, बन्धुनासुहृदा, भवता-श्रीमता, द्राक्-शीघ्रम् , प्रीतिम्-प्रमोदम् , प्रापिता-गमिता, पूर्णोपमाङ्कारः // 16 // (17) - सति स्वस्थ वार्तालापः सुखावह इति खास्थ्यं लभस्वेत्याहशान्तिमिति