________________ : 26 : . सो नपुंसकः' इति हेमलिङ्गानुशासनात् पात्रादिगणान्तर्गतत्वेन त्रिभुवनशब्दस्य नपुंसकत्वान्न ङीत्वम् ,जगत्त्रयपूज्यम् / बाहुदेवम्तदाख्यजिनेश्वरम् , महाविदेहान्तर्गतवत्सविजय-सुसीमापुरी पुनानं विजयासुग्रीवसम्भूतं मोहनामोहनं मृगात श्रीबाहुदेवनामानमर्हन्तमितियावत् , नन्तुम्-अभिवादयितुम् , सहर्षः-हर्षेण सहितः सहर्षः -'सहस्य सोऽन्यार्थे ' / 3 / 2 / 143 / इति सहस्य सादेशः, उल्लासकलितः, उत्सुक इतिभावः, श्रीसीमन्धरस्वामिवन्दनान्तरमेव श्रीबाहुदेवजिननमनाय समुत्सुक इत्याशयः मार्गे-अध्वनि, तीर्थप्रणतिविगलत्पापपङ्कः-तीर्थानां प्रणत्या विगलन् पापपङ्को यस्य सः, पुण्यभूमिप्रणामप्रणश्यत्कलुषकर्दमः, स्वमौलौ-निजोत्तमाङ्गे, मूयते बध्यते मुकुटादिकमत्रेति मौलिः, पुंस्त्रीलिङ्गः 'धूमूभ्यां' (उणा० 701) इतिलिण् , 'उत्तमाङ्गं शिरो मूर्धा मौलिः' इति हैमः, अर्हचैत्याश्चितः-जिनबिम्बकलितः, चन्द्रमुकुटे जिनबिम्बचिह्नमिति मौलावर्हचैत्याञ्चितत्वं संभाव्यते आधेयधर्म आधारे आरोप्यते इति // 'चैत्यंजिनौकस्तद्विम्ब'मिति वचनाच्चैत्यशब्दस्य जिनबिम्बवाचकत्वमपि, त्वमसीतिशेषः इति-पुरोदीरितकारणैः, जगद्वन्ध-! हे विश्वाभिवन्दनीय!, त्वाम्-भवन्तम् , वन्दामहे-वयं नमामः, / काव्यलिङ्गालङ्कारः // 15 // त्वत्सङ्गमेन मे सम्मदः सञ्जात इत्यभिव्यनक्ति-खिन्नामिति. खिन्नां तीव्रा-तपपरिचयात् तोयदस्तोयवृष्टया, सिञ्चन् यद्वत् सुखयति कृषि शोषकालोपपन्नः //