________________ : 25 : (15) अञ्जलिकर्मणा रञ्जयितुं रजनीपतेविश्वाभिवन्द्यत्वं व्यनक्ति नत्वेति नत्वा सीमन्धरजिनपतिं प्राप्तपुण्यप्रकों, भूयो नन्तु त्रिभुवनगुरुं बाहुदेवं सहर्षः // ___ मार्गे तीर्थ-प्रणतिविगलत्-पापपङ्कः स्वमौलावर्हचैत्या-श्चित इति जगद्वन्द्य! बन्दामहे त्वाम् // 15 // ' (अन्वयः) सीमन्धरजिनपतिं नत्वा प्राप्तपुण्यप्रकर्षः भूयः त्रिभुवनगुरुं बाहुदेवं नन्तुं सहर्षः मार्गे तीर्थप्रणतिविगलत्पापपङ्कः स्वमौलौ अर्हचैत्याञ्चितः (त्वम् असि ) इति जगद्वन्ध ! त्वां वन्दामहे / (प्रकाशः) सीमन्धरजिनपतिम्-तदभिधानतीर्थाधिपतिम् , पूर्वमहाविदेहान्तर्गताष्टमपुष्कलावतीनामविजये विहरन्तं सत्यकीश्रेयांससञ्जातं रुक्मिणीरमणं वृषाङ्कितं धनुष्पञ्चशतोच्छ्रितवर्णकायं चतुरशीतिलक्षपूर्वायुष्कं श्रीसीमन्धरजिनमितियावत् सीमानं मर्यादां धारयतीति सीमन्धरः धारेधर्च' / 5 / 1 / 113 / इति खः धारेर्धरादेशश्च खित्यनव्यया- ' / 3 / 2 / 111 // इति मोऽन्तः, नत्वा-नमस्कृत्य, प्राप्तपुण्यप्रकर्षः-पुण्यस्य प्रकर्षः प्राप्तः पुण्यप्रकर्षो येन सः, आसादितसुकृतोत्कर्षः, भूयः-पुनरपि, त्रिभुवनगुरुम्-त्रयाणां भुवनानां समाहारस्त्रिभुवनं तस्य गुरुम् , समाहारे. 'द्विगोः समाहाराद्' / 2 / 4 / 22 / इति अकारान्तोत्तरपदस्य द्विगोः स्त्रियामिष्टत्वेन 'डी' प्राप्तिसत्त्वेऽपि ' पात्रादिवर्जितादन्तो-त्तरपदः समाहारे / द्विगुरन्नाबन्तान्तो वाऽन्यस्तु