________________ (अन्वयः) सखे ! अस्मिन् उत्तुङ्गे शिखरिशिखरे दत्तपादा. वलम्ब: मार्गश्रान्तः ( त्वं) विश्रामहेतोः क्षणम् इह सुखं तिष्ट पमाभिधवरसरःसम्भवः केतकीगन्धबन्धुः उच्चैः सर्पन हृद्य समीरः त्वां सुखयतु // 14 // (प्रकाशः) सखे :-सुहृत् !, अस्मिन्-पुरोवर्तिनि, उतुङ्गेअत्युन्नते, शिखरिशिखरे-पञ्चकूटाद्रिशृङ्गे, दत्तपादावलम्बःपादस्यावलम्बः दत्तः पादावलम्बो येन सः स्थापितरश्मिरूपचरणावलम्बनः, मार्गश्रान्तः-पथखिन्नः, संततसञ्चरणसजातश्रमश्रमित इति यावत् , त्वम् , विश्रामहेतोः-श्रमापाकरणाय, क्षणम्-ईषत्कालम् , इह-अत्र, सुखम्-आनन्दं यथास्यात्तथा, तिष्ठ-स्थिति विदध्याः, सन्देशश्रावणे स्थैर्यस्यावश्यकत्वाद्व्याजेन स्थितयेह्याऽऽमन्त्रयत् , पद्माभिधवरसर सम्भवः-पद्मम् अभिधा यस्य तत् वरं च तत् सरःपद्माभिधञ्च तद्वरसरः ततः सम्भवः पद्माख्यश्रेष्ठसरसीसम्भूतः, केतकीगन्धबन्धुः-क्रकचच्छदाख्यपुष्पपरिमलपरीतः, ' केतकः, क्रकचच्छदः' इति हैमः, सद्गन्धिसुमनःसुरभिसुहृदितियावत् , उच्चैः सर्पन्-उद्गच्छन् , हृद्यः-हृदयालादप्रदः, मनोज्ञ इतियावत् , हृदयस्य प्रियं हृद्यम् ' हृद्यपद्य-'७।१।११। इति यः 'हृदयस्य हृल्लास-'।३।२।९४। इति हृदादेशः, समीर:-पवनः, त्वाम्-श्रीमन्तम् , सुखयतु-आहादयतु, सुखं करोति सुखयति ‘णिज्बहुलं नाम्नः कृगादिषु' / 3 / 4 / 42 / इति ‘णिच् / छेकानुप्रासः // 14 //