________________ भागः-अर्धं चासौ भागः याम्यस्यार्धभागः भरतश्च तत् क्षेत्रं चरमं च तत् भरतक्षेत्रं तस्य याम्यार्धभागः, अन्तिमभरतक्षेत्रदक्षिणार्धप्रदेशः, की-कुत्र? अयम्-असौ' इयान्-एतावान् 3315716 योजनपरिमितः, प्रौढप्रौढेः-अत्युन्नतैः, शतशो योजनोच्छूितैः, शिखरिशिखरैः--निषध-महाहिमवन्त---लघुहिमवन्त--वैताढ्यप्रमुखपर्वत (३७)कूटैः, दन्तुरीभूतदेशः-उच्चावचीभूतभूमिः उन्नता दन्ता सन्त्यस्य दन्तुरः ‘दन्तादुन्नतात्' / 7 / 2 / 4 0 / इति 'डुरः' मार्ग:पन्थाः, कोमलैः-मृदुभिः, स्वच्छपादैः-विमलकिरणक्रमैः, कथम्-केन प्रकारेण 'कथमित्थम्' ।७।२।१०३।इति प्रकारार्थे किंशब्दात् थमन्तो निपात्यते, अतीत:-अतिक्रान्तः ? / 'यत्रासम्भावितस्यार्थस्य सम्बन्धः क्रियते स विषमालङ्कारः' इति लक्षणलक्षितोऽत्र 'विषमः' // 13 // (14) अतिदूरात्समागमनेन पथि श्रान्तेन त्वया साम्प्रतमिह क्षणं विश्रामो विधेलिम इत्याह मार्गश्रान्त इति- . मार्गश्रान्तः क्षणमिह सुखं तिष्ठ विश्रामहेतोरुत्तुङ्गेऽस्मिन् शिखरिशिखरे दत्तपादावलम्बः॥ हृद्यः पद्मा-भिधवरसरासम्भवस्त्वां समीरः, सर्पन्नुच्चैः सुखयतु सखे ! केतकीगन्धबन्धुः॥१४॥ . समविभागेऽर्धशब्दस्य नित्यनपुंसकत्वम् अत्र समविभागोऽपेक्षित इंति अर्धं चासौ भाग इत्येव विग्रहः साधीयान् , यदुक्तम्-अभिधानचिन्तामणिविवृत्तौ 'समप्रविभागे त्वर्द्ध नपुंसकम्' इति /