________________ : 22 : (13) दूरदूरान्मृदुपादस्य ते कथमिहागमनं सञ्जातमितीन्दं प्रश्नयति काहो इति. काहो ! शीतो-पगतमतनु प्राक्तनाध विदेहक्षेत्रं कायं चरमभरत-क्षेत्रयाम्याभागः !! __मार्गोऽतीतः कथमयमियान् कोमलैः स्वच्छपादः, प्रौढप्रौढैः शिखरिशिखरै-दन्तुरीभृतदेशः // 13 // (अन्वयः ) अहो ! शीतोपगतम् अतनु प्राक्तनार्ध विदेह क्षेत्र क्व, अयं चरमभरतक्षेत्रयाम्यार्धभागः क, अयमियान् प्रौढ प्रौढैः शिखरिशिखरैः दन्तुरीभूतदेशः मार्गः कोमलैः स्वच्छपादै कथम् अतीतः // 13 // (प्रकाशः) अहो !-आश्चर्यम् , शीतोपगतम्-सीतासरिल्लसितम् , नीलवन्तपर्वतवर्तिकेसरिहृदनिःसृता पूर्वविदेहमभिव्याप्यस्थिता प्रारम्भे पञ्चाशद्योजनायता योजनावगाहा सागरसङ्गमसमये पञ्चशतयोजनविस्तृता दशयोजनगभीरा पथि सम्मिलद्वात्रिंशत्सहस्राधिकपञ्चलक्षामितसरितां सलिलप्रवाहपरिपूर्णा सीतानामनदी ताम्-उपगतम् , अतनु-महत्, चतुरशीतिषट्शताधिकत्रयस्त्रिंशत्सहस्रयोजन-चतुष्कला( 336849 )विस्तृतत्वादर्धलक्षयोजन दीर्घत्वात्सनातनसुकृतसद्भावाच अतनु, प्राक्तनार्धम्-पूर्वार्धम् , विदेहक्षेत्रम्-महाविदेहनामकम् , जम्बूद्वीपवर्तिमेरुशिखरिणः पूर्वपश्चिमप्रदेशः, क?-कुत्र ?, अयम्-असौ, चरमभरतक्षेत्रयाम्यार्ध